________________
"?" ति अष्टौ अंशा:-त्रसनाड्यन्तःप्रविष्टघन-रज्जव: “छसु वि दुहा" ति सनत्कुमारादिषु सहस्रारान्तेषु षष्वपि कल्पेषु शेषा समुद्घात-गमना-गमनभेदभिन्ना द्विधा स्पर्शना भवति । तत्र गमनागमनकृता देवौधादिवदेव, समुद्घातकृता पुनर-मीषां देवानामेकेन्द्रियतयाऽनुत्पत्तेरच्युतकल्पस्योपरितनी नवमरज्जुविषयिणी या एकेन्द्रियतयोत्पद्यमानानां भवनपत्यादीनां प्राप्यते सेह न लभ्यते, तथा च शेषा तृतीयपृथिवीगतैस्तत्रैव मुमुर्घभावं प्राप्य समुद्घातेन कृता तिर्यग्लोकपर्यन्ता रज्जुद्वय-माना तथाऽच्युतकल्पं प्राप्तैस्तत्रैव मुमधुंभावं प्राप्य समुद्घातेन कृता तिर्यग्लोकपर्यन्ता षड्रज्जुमाना समस्ता सती अष्टौ रज्जव इति ॥२४॥
चउआणय-सुक्कासुं,
उप्पाया जगअसंखभागो उ ।
छंसाऽस्थि सेसदुविहा, "चउआणये"त्यादि, आनत-प्राणता-ऽऽरणा-ऽच्युतकल्परूपेषु चतुवा॑नतादिदेवभेदेषु शुक्ललेश्यायां चोत्पादाज्जगत:-लोकस्याऽसंख्यांश: स्पर्शना भवति । "छंसाऽत्थि" त्ति शेषा समुद्घात-गमनागमनभेदभिन्ना द्विविधा स्पर्शना तु त्रसनाडेः षट्चतुर्दशांशा भवति । तत्र लोकासंख्यभाग आनतादिदेवतयोत्पित्सूनां मनुष्याणां यत्स्वस्थानक्षेत्रं यच्चानतादिदेवानां स्वस्थानक्षेत्रं तयोयोस्तिर्यग्लोको लोकस्थितयोरन्तरालस्य सार्धपञ्चादिरज्जु-प्रमाणत्वेऽपि तयोर्द्वयोरपि तिर्यक्प्रतराऽसंख्येय-भागमात्रावगाहनात्प्रागुक्तनीत्या ज्ञेया । शेष-द्विविधा तु सनत्कुमारादिदेवानामष्टरज्जुस्पर्शनावत्, केवलममीषामानतादिदेवानां शर्कराप्रभादिनरकपृथिवीषु गमनागमनं नास्तीति अधोलोकसम्बन्धिर-ज्जुद्वयेन न्यूनेति
षडभिहितेति ॥
विउव्वजोगे ण उप्पाया ॥२५॥ भागा गमागमाओ,
अट्ठ समुग्घायओ हवइ तेर । "विउव्वे"त्यादि, वैक्रियकाययोगे जीवानामुत्पादकृतस्पर्शना न भवतीत्यर्थः । गमनागमनकृता तु भवनपत्यादिदेवानामिवाष्टौ 'भागाः' रज्जव: सघना-स्वसनाड्यन्तःप्रविष्टाः । समुद्घातत: पुनस्तादृशास्वयोदशांशाः स्पर्शना भवति । कथं त्रयोदश? सप्त भागा ईषत्प्राग्भारापृथिव्यामत्पित्सुभिर्भवनपत्यादिदेवैः कृतोर्ध्वलोक-सम्बन्धिनी षड् भागास्तु तिर्यक्तयोत्पित्सुसप्तमभूमिनारककृता, यद्वा प्रकारान्तरेण सैव भवनपत्यादिदेवकृतोललोकसम्बन्धिनी चतस्त्रो रज्जव: स्पर्शना नारककृतैवेति समस्ता त्रयोदश । सप्तमभूभागादधस्तनी लोकान्त-पर्यन्ता एकरज्जुमाना तु न सम्भवत्येव, अधोलोके पृथिव्यादितया भवनपत्यादिदेवानामनुत्पत्तेरिति ॥
मीसविउव्वे ण दुहा,
सट्ठाणा जगअसंखंसो ॥२६॥ "मीसविउव्वे ण दुहा" त्ति वैक्रियमिश्रकाय-योगे उपपातसमुद्घातकृता द्विविधा स्पर्शना न भवति, अपर्याप्तावस्थनारकदेवानामुत्पत्तिस्थानशय्यातोऽन्यत्र गमनाभावाद् मरणस्येव मारणसमुद्घातस्याप्य-सम्भवाच्च । “सट्ठाणा" त्ति स्वस्थानात्तु 'जगत:' लोकस्याऽसंख्यांशः स्पर्शना भवति, कुतः ? अधिकृतानां भवप्रत्ययवैक्रियमिश्रशरीरिदेवानामपर्याप्तावस्थतया उत्पादशय्यागतत्वादेव, उत्पादशय्याश्च तेषां लोकाऽसंख्येयभागगता इति तु सुगममिति ॥२६।।