________________
स्थापना यथा
पच-मनुत्तर नव-धेयक
nts E8
(चित्रपरिचय:-लोकाऽधस्तादारभ्य (१) (२) (३) इत्यादिनाऽङ्कितेषु स्थानेष्वेकादिरज्जूनां समाप्तिर्जेया, शेषम्-अधोलोके नरकभूम्यादी नारक-भवनपति - व्यन्तर-पृथिवीकायादीनां स्थानानि, तिर्यग्लोके मनुष्य-पञ्चेन्द्रियतिर्यग्-विकलेन्द्रियादिस्थानानि, ऊर्ध्वलोके यथोत्तरं द्वादश-कल्पोपपन्न-नवग्रैवेयक-पञ्चानुत्तरे-षत्प्राग्भारापृथिव्यादिस्थानानीत्यादि सुज्ञेयमिति ।)
शेषद्विविधा तु भवनपत्यादिवत्सौधर्मादि-देवानामप्येकेन्द्रियतयेषत्प्रारभारापृथिव्यामुत्पत्तेरुपर्यच्युतकल्पान्त-मधस्तृतीयपृथिवीं यावच्च पूर्वसांगतिकानयनादिहेतुकगमनागमनसम्भवाद् विज्ञेया ॥२३॥
तइआईसु दु-इग-इग
इग-इगकप्पेसु होइ सा कमसो । सड्ढदु-सड्ढति-चउ-स
ड्ढचउ-पणंसाऽट्ठ छसु वि दुहा ॥२४॥ "तइआईसु" इत्यादि, तृतीये सनत्कुमारकल्पे चतुर्थे माहेन्द्रकल्प इति द्वयोः सा उत्पादापेक्षा स्पर्शना 'सड्ढदु'त्ति सार्धद्विभागी, पञ्चमे ब्रह्मकल्पे सा 'सड्ढति' ति सार्धव्यंशाः, षष्ठे लान्तककल्पे सा 'चउ' ति चतुरंशाः, सप्तमे शुक्रकल्पे सा "सड्ढचउ" ति सार्धचतुरंशाः, अष्टमे सहस्रारकल्पे सा 'पणंसा' त्ति पञ्चांशा भवति, युक्तिस्त्वत्र तत्तत्कल्पानां तिर्यग्लोकात् सार्धव्यादिरज्ज्वन्तरेण व्यवस्थितत्वात । उक्तं च प्राग् 'ईसाणम्मि दिवड्ढा' इत्यादि, अन्यदपीदम्-'सोहमम्मि दिवड्ढा अड्ढाइज्जा य रज्जु माहिदे । पंचेव सहस्सारे छ अच्चुए सत्त लोगते' इति।
-निर्यग्लोकः
F
अस नाडी