________________
तिर्यग्मनुष्याणां मृत्वा सर्वत्रोत्पत्तेः सम्भवात् । औदारिककाययोगे तु केवला समुद्घातप्रयुक्ता सर्वलोकस्पर्शनाऽनन्तरोक्तनीत्या विज्ञेया, शेषासु पञ्चेन्द्रियौघादिषु पञ्चविंशतिमार्गणासु द्विविधा तु मनोयोगादिवदेव, तृतीयोत्पादतस्तु तिर्यग्गत्योघादिभेदवत्सर्वलोकवर्तिसूक्ष्मैकेन्द्रियादीनां पञ्चेन्द्रियतयोत्पत्तेातव्येति ॥१९-२०-२१॥
देवेऽट्ठ पण नव कमा,
गमागमु-प्यायओ समुग्धाया । "देवेऽद्व" इत्यादि, देवगत्योघे त्रसनाडिसम्बन्धिनो यथोक्तस्वरूपा घना अष्टौ पञ्च नव च भागा: 'क्रमाद्'-यथासंख्यं गमनागमनाद् उत्पादतः समुद्घाताच्च स्पर्शना भवति । तत्राष्टौ रज्जवो देवानामधोलोके तृतीयपृथिवीं यावद् रज्जुद्वयमुपरि चाच्युतकल्पं यावद् रज्जुषट्कं गमनात् । उत्पादतः पञ्च रज्जवस्तु एकरज्जवृत्तविस्तृतात् तिर्यगलोकात् तिर्यगायःक्षयेण सहस्रारकल्पे देवतयोत्पद्यमानजीवा पेक्षया प्राग् यथा षष्ठपृथिवीनरकभेदे उत्पादतो दर्शिता तथा ज्ञेया । समुद्घातकृता नव रज्जव: स्पर्शना पुन-विहारवत्क्षेत्रतया तृतीय-नरकस्पृशितिर्यक्प्रतरेषु सर्वत्र गतानामनन्तरभवे ईषत्प्राग्भारापृथिव्यां पृथिवीकायत्वेनोत्पित्सूनामनन्तमतीतकाल-मधिकृत्यानन्तानां भवनपत्यादीशानान्तदेवानां तत्रैव प्राप्तमुमुर्घभावानां मारणसमुद्घातेनोत्पत्तिस्थलावधिक-प्रसृतात्मप्रदेशदण्डानपेक्ष्य विज्ञेया, सा च रज्जुद्वयमधोलोकसंबधिनी रज्जुसप्तकं तूर्ध्वलोकसम्बन्धिनी । इह मध्यवर्तित्वात्तिर्यग्लोकस्य स्पर्शनाप्यस्ति एव, परंसाऽप्रधाना प्रोक्ताधोलोको+लोकसंबन्धि-द्विविधस्पर्शनयैव गतार्था विज्ञेया । एवमन्यत्राऽपि रज्जु-द्विरज्ज्वादि-स्पर्शनायामेकदेशस्य ग्रहणाऽग्रहणे गौणभाव एव विज्ञातव्यः, यत्र केवललोकाऽसंख्येयभागमात्रा स्पर्शना तत्रैव तस्य मुख्यवृत्त्याऽधिकृत-त्वादिति ॥
एमेव भवण-वंतर
जोइसदेवेसु णवरं खु ॥२२॥ लोगस्स असंखंसो, उप्पाया "एमेव भवणे"त्यादि, यथाऽनन्तरं देवौघे उक्तातथैव भवनपति-व्यन्तर-ज्योतिष्कदेवभेदेषु स्पर्शना भवति, 'णवरं'केवलमुत्पादात् लोकाऽसंख्येय-भागमात्रा भवति, न पुनर्देवौधवत् पञ्च भागाः । कथम् ? तत्र तिर्यग्लोकात्पञ्चरज्ज्वन्तरेणोत्पद्यमानानां सहस्रारदेवानां प्रवेशादिह तु तिर्यग्लोकाददूरेण शत-सहस्रादिसंख्येययोजनमात्रान्तरेणोत्पद्यमानानां भवनपत्यादिदेवानामेव प्रवेशादिति । शेषद्विविधा तु तत्राऽपि भवनपत्यादिदेवाक्षिप्तेतीहापि संघटत इति ॥
एवमेव तेऊए । सोहम्मीसाणेसु य
___परमुप्पायेण सड्ढंसो ॥२३॥ "एवमेव" इत्यादि, भवनपत्यादिदेवभेदवदेव तेजोलेश्यायां सौधर्मेशानदेवभेदयोश्च, 'परं' केवलमुत्पादेन "सड्ढेसो" त्ति त्रसनाडे: सार्धाघनरज्जुर्भवति, तिर्यग्लोकात् सार्धरज्जवन्तरेण सौधर्मशानकल्पयोर्व्यवस्थानात् । तदुक्तं जीवसमासे
"ईसाणम्मि दिवड्ढा अड्ढाइज्जा य रज्ज माहिदे । पंचेव सहस्सारे छ अच्चुए सत्त लोगंते ॥१९१।।" इति ।।
५२