________________
सव्वतिरि-णर-इग-विगलेसुं ॥१७॥ पणकायसव्वभेया
ऽपज्जपणिदितस-कम्मु-रलमीसे । णपुम-अमण-ऽणाहारे
गमागमा ण दुविहा लोगो ॥१८॥ "सव्व" इत्यादि, सर्वेषु पञ्चसंख्याकेषु तिर्यग्गतिभेदेषु, सर्वेषु चतु:संख्याकेषु मनुष्यगतिभेदेषु, सर्वेषु सप्तसंख्याकेषु एकेन्द्रियभेदेषु, सर्वेषु नवसंख्याकेषु विकलेन्द्रियभेदेषु, तथा पृथिव्यादि-पञ्चकायसंबन्धिषु सर्वसंख्ययैकोनचत्वारिंशद्-भेदेषु, अपर्याप्तपञ्चेन्द्रिये, अपर्याप्तत्रसे, कार्मणकाययोगे, औदारिकमिश्रकाययोगे, नपुंसकवेदाऽसंश्य-ऽनाहारकेष्वित्येवं सर्वसंख्यया एकसप्ततिमार्गणास्थानेषु गमागमात् स्पर्शना न भवति, करणत: पर्याप्तानां देवानामप्रवेशेन स्वस्थानस्पर्शनातो नातिरिच्यत इति भावः । "दुविहा लोगो" त्ति शेषा उत्पादसमुद्घातभेदभिन्ना द्विविधा परिपूर्णलोकमाना भवति, प्रत्येकमार्गणागतजीवानां ततश्च्युत्वा सर्वलोकव्यापिसूक्ष्मैकेन्द्रियतया सूक्ष्माणां तत्तन्मार्गणासु मनुष्यादितया उत्पत्तेविहितत्वाच्चेति ॥१८॥
एमेव दुहाऽटुंसा, ___ गमागमेण य पर्णिदियतसेसुं । सिं पज्जेसु तहा पण
मणवय-कायोहजोगेसुं ॥१९॥ ओराल-थी-पुमेसुं, कसायचउगे य तिविहअण्णाणे ।
अयते णयणा-ऽणयणे,
कुलेस-भवि-यर-मिच्छेसुं ॥२०॥ सण्णिम्मि य आहारे,
हवेइ फुसणा परं ण उप्पाया । पणमणवयजोगेसुं,
गमागमा वि ण उरालेऽत्थि ॥२२॥ "एमेव दुहा" इत्यादि, द्विविधा उत्पाद-समुद्घातभेदभिन्ना 'एवमेव'-यथाऽनुपदमुक्ता तथैव सर्वलोकप्रमाणैव स्पर्शना भवति. "अवसा गमागमेण य" ति त्रसनाडेरष्टचतुर्दशभागलक्षणा अष्टौ घनरज्जवो गमनागमनेन च स्पर्शना भवति. का? इत्याह-'पणिदिय' इत्यादि, पञ्चेन्द्रियौघ-त्रस-कायौघयोः, तयोः पर्याप्तभेदयोस्तथा पञ्चमनोयोग-पञ्चवचोयोग-काययोगौघेषु, औदारिककाययोग-स्त्रीवेदपुरुषवेदेष, कषायचतुष्के, त्रिविधेऽज्ञाने, असंयमे, चक्ष-रचक्षदर्शनयोः. कृष्णादिकुलेश्यात्रय-भव्य-तदितराऽभव्य-मिथ्यात्वेषु, संज्ञिमार्गणास्थाने आहारकर्मार्गणास्थाने च "हवेइ फुसणा" ति स्पर्शना भवतीति प्राग्योजितम् । अत्रैवापवदति-'ण" इत्यादि, पञ्चसु मनोयोगेषु पञ्चसु वचोयोगेषु चोत्पादत: स्पर्शना न भवति, केषाञ्चिदपि जीवानां भवप्रथमसमये मनोवचोयोगयोरप्रवर्तनात् । तथा "गमागमावि ण उरालेऽस्थि" त्ति अपिशब्दस्य समुच्चायकतया गमागमाद् उत्पादाच्चेत्येवं द्विविधाऽपि स्पर्शना औदारिककाययोगे न भवति । तथा च मनोवचोयोगभेदेषु गमनागमनतोऽष्टरज्जुस्पर्शना समुद्घाततश्च सर्वलोकस्पर्शना भवति, तत्राष्टौ रज्जवो देवकृताऽधस्तृतीयनरकावधिकोपरि अच्युतकल्पपर्यवसाना इति कृत्वा । सर्वलोकस्तु प्रागिव मनोवचोयोगिनां