________________
मनुष्यक्षेत्रस्य तेषां देवानां स्वस्थानक्षेत्रस्य च तिर्यक्प्रतराऽसंख्येयभागमात्रगतत्वेन यथोक्तानामूवधिः षड्रज्जुमानात्मदण्डानां तिर्यग्रज्ज्वसंख्येयभागमात्रबाहल्यभावादुपपात-समुद्घातकृता द्विविधाऽपि स्पर्शना लोकाऽसंख्येयभाग-मात्रा एव भवतीति । इदमत्र हृदयम्-विवक्षितमुमूर्षजीवानां यत्रावस्थानं सम्भवति तत्क्षेत्रं यत्र च ते उत्पत्स्यन्ते तत्क्षेत्रमित्येवं द्विविधमपि क्षेत्रं प्रत्येकं यत्र तिर्यक्प्रतरासंख्येयभागमात्रवर्ति भवति तत्र तयोरूधिोऽन्तरालस्य रज्ज-द्विरज्ज्वादि-प्रमाणत्वेऽपि तज्जीवकृतात्मप्रदेशदण्डानां तिर्यक्-प्रतराऽसंख्येयभागमात्रगतत्वेन स्पर्शनाऽपि लोका-ऽसंख्येयभागमात्रा भवति, उक्तक्षेत्रद्वयमध्यादेकविधक्षेत्रस्याऽपि तिर्यक्प्रतरव्यापित्वे तु स्पर्शना सान्तरालोधिःक्षेत्रमानानुसारेणैकव्यादिघनरज्जुमाना लभ्यते, ऊर्ध्वाधोवर्युक्तद्विविधक्षेत्रान्तरालस्य रज्ज्वसंख्येयभागमात्रत्वे तु तस्य द्विविधक्षेत्रस्य परिपूर्णतिर्यक्प्रतरव्यापित्वेऽपि न भवति लोकासंख्येयभागादधिका स्पर्शनेति सर्वत्र यथासम्भवमभ्यूह्येति ॥१५॥
एमेवाऽऽहारदुगे, __ अवेअ-मणणाण-संजमोहेसुं। परिहार-छेअ-समइअ
सुहुमेसु परं ण उप्पाया ॥१६॥ "एमेवाहारदुगे' इत्यादि, 'एवमेव'-यावती प्रथमनरकादिमार्गणाभेदपञ्चदशकेऽनुपदमभिहिता तावती एवा-55हारकाऽऽहारकमिश्रकाययोगा-ऽपगतवेद-मन:पर्यवज्ञान-संयमौघ-सामायिकछेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयमलक्षणेषु नवमार्गणाभेदेषु
भवति; 'परम्'-केवलमिह मार्गणाभेदनवके उत्पादात् स्पर्शना नास्ति, आहारकत्वादिभावानामष्टवर्षातिक्रान्ताऽऽयुष्कजीवानामेव सम्भवेन भवाद्यसमयवर्तिनां तत्राऽनिवेशात्, तदेवमिह स्वस्थानतः समुद्धाततश्चेत्येवं द्विविधा स्पर्शना लोकासंख्येयभागमात्रा प्राप्यत इति ॥१६॥
दुइआइणिरयपणगे, __ कमा इग-दु-ति-चउ-पंच भागास्थि ।
दुविहा ण गमागमओ,
"दुइआइ" इत्यादि, द्वितीयादिषु पञ्चसु नरकपृथ्वीमार्गणास्थानेषु क्रमात् त्रसनाडे: एक-द्वि-त्रि-चतुः-पञ्चभागा: स्पर्शना भवति, कथम्भूते-त्याह-'दुविहा' त्ति उत्पादत: समुद्घातत-श्चेत्यर्थः । 'ण' त्ति गमनागमनतस्तु प्रागिव न भवत्येव, काचित्स्वस्थानापेक्षया विशिष्टेत्यर्थः । तत्रैकादिभागमाना द्विविधस्पर्शना सप्तमनरकपृथिव्यां दर्शितषड्रज्जु-स्पर्शनावद्विभावनीया, तिर्यग्लोकाद् द्वितीयादिपृथिवीनारकस्थानानामेकादिरज्ज्वन्तरेण व्यवस्थितत्वात् । तदुक्तं लोकप्रकाशे
"सर्वाधस्तनलोकादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥९॥ प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जव: ॥१०॥" इति ।
समस्तात् तिर्यग्लोकात् तत्र द्वितीयादिपृथिवीषु नारकतया, ततश्च द्वितीयादिनरकपृथिवीतस्तिर्यक्त्वेन समस्ततिर्यग्लोके उत्पत्तेरविरोधादिति ।
४८