________________
एकमप्याकाशप्रदेशमविहाय सर्वतो यथाऽनन्ताः सिद्धिमवाप्नुवन्नतीताऽनन्तकाले तथा ततः सर्वतोऽनन्ता मृत्युमवाप्य गत्यन्तरमपि प्राप्ता एव, अतीतकालस्यानन्तत्वेन योग्यतासद्भावे प्रत्येकं भावानामतीतकालेऽनन्तशो भूतत्वात् अस्ति हि मनुष्यक्षेत्रगतप्रत्येकाकाशप्रदेशा मनुष्याणां मृत्यधिकरणयोग्याः । यथा हि मनुष्याणां परिपूर्णं मनुष्यक्षेत्रं मृत्यधिकरणयोग्यम् इत्वा च ततः सर्वस्मादनन्ता मनुष्या मृति गत्यन्तरमवाप्तास्तथा परिपूर्णस्य तिर्यक्क्षेत्रस्य तिरश्चां मृत्यधिकरणयोग्यत्वेन तदेकरज्जुवृत्तविस्तृतात्परिपूर्ण तिर्यक्क्षेत्रात् मृत्युमवाप्याऽनन्तास्तिर्यञ्चोऽतीतकाले स्व-प्रायोग्यगत्यन्तरे ऽवश्यमिताः, तन्मध्येऽनन्ताः सप्तमभूमौ नारकतयाप्युत्पन्नाः सर्वस्मात् तिर्यगेकरज्जुवृत्तविस्तृतात् तिर्यक्क्षेत्रात् । तत्रोदितनरकायुषा - मुर्ध्वाधः षड्रज्जूच्छ्रिताः परिपूर्णतिर्यक्प्रतरप्रारब्धा ये अनन्ता आत्मदण्डा - स्तैस्तिर्यगेकरज्जुवृत्तविस्तृतमूर्ध्वाधस्तिर्यग्लोकात् सप्तमभूमिपर्यन्तं षड्-रज्जुमानं घनं त्रसनाड्यन्तर्गतं सघनषड्रज्ज्वात्मकं क्षेत्रमापूरितं नानाऽतीतकालापेक्षया स्पृष्टमेवेत्यर्थः । तदेवोपपातमधिकृत्य सप्तम-नरकमार्गणाभेदे तदेव च नरकगत्योघे त्रसनाडे ः षट्चतुर्दशभागात्मिका मूलोक्तस्पर्शना विज्ञेया । यद्यपी स्वयम्भूरमणसमुद्रस्य बहिर्जगतेः परभागवर्तिनि घनवातवलयादिप्रान्तभागलक्षणे क्षेत्रे पञ्चेन्द्रियतिरश्चाम-सम्भवेन ततः क्षेत्रात् नारकतया न लभ्यते केषां चितिरश्चामुत्पत्ति, तत एव तत्तिर्यग्लोकप्रान्तभागस्पृक्तदात्मप्रदेशदण्डानामप्यप्राप्तेर्न लभ्यते तावत्क्षेत्रस्पर्शनाऽपि, तथा च नान्यूनषड्रज्जुस्पर्शना, किन्तु देशोनषड्ज्जव एव तथापि एकदेशन्यूनतामविवक्ष्य सामान्येनैव परिपूर्णाः षड्रज्जवो ऽभिहिता । एवमेवान्यत्राऽपि सामान्यत एकद्वयादिरज्जु - स्पर्शनाऽभिधानेऽपि यथासम्भवमेकदेशादिना न्यूनाऽधिका वा सा स्वयमेवावसातव्येति ।
४६
यथैवोत्पादात् तथैव समुद्घातादपि केवलं तिर्यक्तयोत्पित्सुभिर्मुमूर्षुभिः सप्तमभूमिनारकैः सप्तमनरकात् मारणसमुद्घातेन प्रथमतस्तिर्यक् तत ऊर्ध्वमित्येवम-ऋजुनिक्षिप्त-स्वात्मप्रदेशदण्डैः स्पृष्टं क्षेत्रमतीतानन्तकालापेक्षया यथोक्तं घनरज्जुषट्कमानं भवतीति । अत्र यद्यप्युक्ता - न्यनारकादितयो-त्पित्सुजीवकृतस्पर्शना भवत्येव, नवरं सा गौणी, उक्तस्पर्शनाऽन्तः प्रविष्टत्वादिति न योजिता, न पुनः सा सर्वथा न भवति न वा नाधिकृतेति विज्ञेयम् । अनेनैव प्रकारेण वक्ष्यमाणैकादिभागस्पर्शना त्रसनाडिगतघनरज्जु-रूपेणोपपादनीयेति ॥१४॥ पढमणरय णवगेविज्जपंचत्रविमाणसुं । ण हवेड़, गमागमओ,
दुवा पुण जगअसंखंसी ॥१५॥ "पढमे "त्यादि, प्रथमपृथ्वीनरकभेदे, नवसु ग्रैवेयकदेवमार्गणास्थानेषु पञ्चसु अनुत्तरदेवभेदेषु चेत्येवं सर्वसंख्यया षोडशमार्गणास्थानेषु गमनागमनकृतस्पर्शना न भवति । "दुविहा" त्ति उपपात -समुद्घातभेदभिन्ना शेषद्विविधस्पर्शना तु लोकाऽसंख्येयभागमात्रा भवति । तत्र प्रथमनरके उत्पत्स्यमानानां तिरश्चामतीताऽनन्तकालापेक्षया समग्रतिर्यक् प्रतरव्यापित्वेऽपि तिर्यग्लोकप्रथमनरकयोरन्तरालस्य रज्ज्वसंख्येयभागमात्रतया तिर्यगेकरज्जु-प्रमाणसमस्त-प्रतरस्पृष्टानामप्यात्मप्रदेशदण्डानामूर्ध्वाधो रज्ज्वसंख्येयभागमात्रोच्छ्रितत्वेन द्विविधस्पर्शनाया अपि लोकसंख्येय-भागमात्रत्वमेव भवति । एवमेव शेषग्रैवेयकादिभेदेष्वपि तत्रोप्तित्सूनां मनुष्यतया मनुष्यक्षेत्रादेव तत्रोत्पत्तेः तेषां च तिर्यक् प्रतरासंख्येयभाग-मात्रगतस्वस्थानानां ग्रैवेयकदेवानामप्यनन्तरभवे मनुष्यतयैवोत्पत्तेरूर्ध्वाधः षड्रज्जूच्छ्रिताऽऽत्मदण्डानां भावे
४७