________________
अह फुसणा अवि तिविहा,
तुरियावि गमागमेण देवाणं । सट्ठाणा सव्वत्थवि,
खित्तसमाणा हवइ सा उ ॥१३॥ "अह" इत्यादि, अथाऽऽनन्तर्ये, क्षेत्रप्ररूपणा-ऽनन्तरं स्पर्शनाप्ररूपणप्रस्ताव इति तदर्थः । “फुसणा अवि तिविहा" त्ति क्षेत्रवत् स्पर्शनाऽपि उपपात-स्वस्थानसमुद्घातभेदात् त्रिविधा भवति, "तुरिया-ऽवि" त्ति न केवलं क्षेत्रवत् त्रिधा. किन्तर्हि ? 'तरिया'चतुर्थी अपि भवति, कथं केषामित्याह-"गमागमेण देवाणं" ति, केषाञ्चिद्भवन-पत्याद्यच्युतकल्पान्तानां देवानां जिनजन्मादिमह-क्रीडाकुतूहल-पूर्वसांगतिकमीलनादिप्रयोजनेन गमनागमनादत्कर्षतोऽधस्तृतीयभूमिमूर्ध्वमच्युतकल्पं तिर्यक् स्वयम्भूरमणसमुद्रवेदिकान्तं यावद् यथा-सम्भवमिति । तत्र 'सट्ठाणा' त्ति नरकगत्योधादिषु सर्वत्र मार्गणास्थानेषु सा स्पर्शना 'स्वस्थानात्' स्वस्थानापेक्षया 'क्षेत्रसमाना'स्वस्थानक्षेत्रेण यथोक्तमानेन समाना भवति । अत्र स्वस्थानस्पर्शनायाः स्वस्थानक्षेत्रेण तुल्यत्वं लोक-लोकासंख्येय-भागादिना प्रकारेण, न पुनः सर्वथा तुल्याकाशप्रदेशादिना । कथम् ? यत्र स्वस्थानतो लोकासंख्येयभागमात्र क्षेत्रं तत्र स्वस्थानस्पर्शनाया लोकासंख्येभागमात्रत्वेऽपि ? क्षेत्रस्य सामयिकत्वेन स्पर्शनायान्तु व्यतीतानन्तसामयिकत्वेन कुत्रचित् पञ्चेन्द्रियतिर्यगोघादौ तयोर्मध्येऽसंख्यगुणादितारतम्यस्यापि भावात्, क्षेत्रापेक्षया स्पर्शनाऽसंख्येय-गुणादिनाऽधिका भवतीत्यर्थः । एवमेवान्यत्राऽपि लोकासंख्येयभागादिना क्षेत्रस्पर्शनयोस्तुल्यत्वेऽपि क्षेत्रात्स्पर्शनाया विशेषता ज्ञातव्या । इति ॥१३॥
तदेवमभिहिता तुल्यवक्तयत्वादतिदेशेनैव सर्वमार्गणाभेदेषु जीवानां स्वस्थानस्पर्शना । साम्प्रतं शेषत्रिविधां यथासम्भवमाह
णिरये सत्तमणिरये,
भागा छ दुहा गमागमा णस्थि । भागा इह पत्तेयं,
तसनाडिगयघणरज्जुरुवा ॥१४॥
"णिरये" इत्यादि, नरकगत्यो| सप्तमभूमि-नरकभेदे च "भागा छ दुहा" त्ति 'गमागमा णस्थि' इत्यनेनाऽनुपदं गमनागमनकृतस्पर्शनायाः प्रतिषेत्स्य मानत्वात् स्वस्थानस्पर्शनाया अनन्तरमेवातिदिष्टत्वाच्च 'द्विधा'-उपपातसमुद्घातलक्षणप्रकारद्वयापन्ना स्पर्शना षड् भागा भवतीत्यर्थः । “गमागमा णत्थि" त्ति देवानामिहाप्रवेशेन स्वस्थानक्षेत्राद्विशिष्टा काचिद्गमनागमनकृता स्पर्शना नास्ति, न पुनः सर्वथा नास्तीत्यर्थः । इत्थमेवोत्तरत्रापि गमनागमनकृतस्पर्शनाप्रतिषेधे सा स्वस्थानाद्विशिष्टा नास्तीत्येवंरूपेण प्रतिषेधो ज्ञेयः, न पुन: सर्वथेति ।
ननु कियन्माना इमे प्रत्येकं भागा इत्याह-"भागा" इत्यादि, इह स्पर्शनाप्रस्तावेऽनन्तरोक्ता वक्ष्यमाणाश्च भागा: प्रत्येकमेक-रज्जवृत्तविस्तृत-चतुर्दशरज्जुच्छ्रितत्रसनाडिगतघनरज्जुरूपा ज्ञातव्याः । प्रत्येक भागस्वसनाड्या एकचतुर्दशांशमानो भवतीति भावः । तथा च नरकौघसप्तमपृथिवीनरकभेदयोरुपपाततः समुद्धाततश्च षट् चतुर्दशांशास्त्रसनाडे: स्पर्शना । तथाहि-*'अर्धतृतीयद्विपसमुद्रान्तर्वतिनि आकाशे सर्वव्याप्त्या सिद्धा' इत्यादि- वचनात् पञ्चचत्वारिंशल्लक्षयोजनवृत्तविस्तृतमनुष्यक्षेत्रे
*सिद्धप्राभृतविंशतितमगाथावृत्तौ ।
४४