________________
चतुर्थसमये एव केवलिसमुद्घातगतजीवात्मप्रदेशानां लोकव्याप्तेस्तृतीयचतुर्थ-पञ्चमसमयेषु कार्मणकाययोगस्यैव प्रवर्तनाच्च न भवत्यौदारिकतन्मिश्रयोगयोः केवलिसमुद्घातापेक्षयाऽपि सर्वलोकक्षेत्रम्, किन्तु यथोक्तंलोकासंख्येयभागमात्रमेव तत्सम्पद्यते । तथाहि-आयुष्कस्थितितोऽधकस्थितिकानां वेदनीयाद्यघातिप्रकृतीनां क्षपणहेतोः केवली भगवान् समुद्घातं करोति, स च समुद्घातोऽष्टसामयिकः, तस्मिन् केवलिसमुद्घाते प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वाऽधश्चतुर्दशरज्जूछ्रितं स्वात्मप्रदेशदण्डं कुर्वन् लोकासंख्येयभागे तिष्ठति, द्वितीयसमये तस्मादेवात्मप्रदेशदण्डात् बहूनात्मप्रदेशान् पूर्व-पश्चिमदिशोरुत्तर-दक्षिणदिशोर्वा पार्श्वद्वये लोकान्तं यावत् प्रसारयन्नूधिश्चतुर्दशरज्जूच्छितदिग्द्वयलोकान्तगामिकपाटा-कारेणव्यवस्थापयन् लोकासंख्येयभागे व्याप्तो भवति, लोकाऽसंख्येयबहुभागेषु तु न । तृतीयसमये तु तस्मादेव यथोक्तमानात्कपाटात् शेषदिग्द्वये लोकान्तं यावदात्मप्रदेशान् विस्तारयन् लोकप्रान्तवर्तिनिष्कुटादिलक्षणस्तोकमात्रक्षेत्रं विहायाऽशेषप्रायलोकं व्याप्नोति, अयं हि मथिकरणकाल: प्रतरकरणकालो वा भण्यते । चतुर्थसमये तु शेषभागमपि पूरयित्वा पञ्चमादिचतुःसमयेषु प्रातिलोम्येन यथासंख्यं लोक-मथि-कपाट दण्डान् संहरन्नष्टमे समये शरीरस्थो लभ्यते, तत्र मथ्यादि संहरता षष्ठ-सप्तमा-ऽष्टमसयवर्तिना तेन लोकासंख्येयभागः व्याप्यते । तथा चोक्तं व्याख्याप्रज्ञप्तिवृत्ती श्रीमदभयदेवसूरिपादैः
'असखेज्जइभागे होज्ज' त्ति शरीरस्थो दण्ड-कपाटकरणकाले च लोकासंख्येयभागवृत्तिः, केवलिशरीरादीनां तावन्मात्रत्वात् 'असंखेज्जेसु भागेसु होज्ज' त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य
चाव्याप्ततयोक्तत्वाल्लोकस्यासंख्येयेषु भागेषु स्नातको वर्त्तते, लोकाऽऽपूरणे च सर्वलोके वर्तते" इति ।
तत्र च दण्डकरणलक्षणे प्रथमे समये दण्डसंहरणलक्षणेऽष्टमे समये च तस्यौदारिक एव योगः, द्वितीय-षष्ठ-सप्तमसमयेषु औदारिकमिश्रो योगः, तृतीय-चतुर्थ-पञ्चमसमयत्रये तु कार्मणो योगः प्रवर्तते तस्य । तदुक्तं प्रशमरतिप्रकरणे उमास्वातिचरण:
"औदारिकप्रयोक्ता प्रथमा-ऽष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु ॥शा कार्मणशरीरयोगश्चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२।।इति।
तदेवमौदारिक तन्मिश्रकाययोगयो: केवलिसमुद्घातगतजीवलाभेऽपि प्रस्तुतक्षेत्रं लोकासंख्येयभागमात्रं प्रदर्शितमिति ।
"ण हवई" इत्यादि, अकषायजीवानधिकृत्य भण्यमानं क्षेत्रम् "उत्पादाद्" उत्पादापेक्षया कुत्राऽपि मार्गणाभेदे न भवति, भवप्रथमसमयवर्तिनां जीवानामकषायत्वाभावदिति भावः ।
क्षेत्रप्ररूपणमुपसंहरति-"गयं खित्तमिति क्षेत्रप्ररूपणं समाप्तमित्यर्थः ॥१०-११-१२।।
तदेवं भणितं नरकगत्योधादिष्वधिकृतमार्गणाभेदेषु सकषायजीवानधिकृत्याऽकषायजीवानधिकृत्य चोपपात-स्वस्थान-समुद्घातभेदभिन्नं विविध क्षेत्रम् । एतर्हि यथोक्तलक्षणां नानाजीवाश्रितां स्पर्शनां निजिगदिषुः क्षेत्रवदुपपातादिभेदात्स्पर्शनाप्रभेदान् प्रदर्शयन् प्राग्वदादौ सकषायजीवानधिकृत्य तामाह