________________
ननु अकषायजीवानधिकृत्य तर्हि प्रस्तुत - त्रिविधक्षेत्रविचारे तत् कुत्र कियद्भवेदित्याह
अकसाये अहिकिच्च उ,
ते जत्थऽत्थि तहि सव्वत्थ ॥१०॥ लोगस्स असंखंसो,
साणाओ तहा समुग्धाया ।
पणमणवयुरालियदुग
णाणचउग - दंसति ॥ ११ ॥ -सीता,
आहारेऽणत्थ होइ पुण्णजगं ।
ण हवइ उप्पाया खलु,
खित्तं कत्थवि गयं खित्तं ॥ १२ ॥
"अकसाये" इत्यादि, अकषायजीवानधिकृत्य तु तेऽकषायजीवा यत्र मनुष्यगत्योघादिद्विचत्वारिंशन्मार्गणाभेदेषु 'सन्ति' - लभ्यन्ते तत्र सर्वत्र लोकस्याऽसंख्यभागः स्वस्थानाद्भवति । "तहा समुग्धाया" त्ति 'तथा'तद्वदेव लोकासंख्यभागः समुद्घातादपि भवति, केवलं न सर्वेषु द्वाचत्वारिंशत्यपि मार्गणास्थानेषु किन्तु पञ्चमनोयोग - पञ्चवचोयोगौदारिकौदारिकमिश्रकाययोग-मति श्रुताऽवधि मनः पर्यवज्ञान-लक्षणज्ञानचतुष्कचक्षु रचक्षु-रवधिदर्शनलक्षणदर्शन- त्रिकौ पशमिकसम्यक्त्व-संज्ञ्याऽऽहारका इत्येवं द्वाविंशतिमार्गणाभेदेषु, न पुनर्मनुष्यगत्योघादि-शेषविंशतिमार्गणाभेदेष्वपीत्यर्थः । तर्हि तत्र तत्समुद्घाता- त्कियत्स्यादित्याह -" ऽणत्थ होइ पुण्णजगं" ति 'अन्यत्र' - उक्तान्यत्र मनुष्यगत्योघादिशेषविंशतिमार्गणाभेदेषु प्रत्येकं प्रस्तुतत्वात्समुद्घातावाप्तं क्षेत्रं पूर्णं जगद्
४०
भवति । अयम्भावः समुद्घातं प्रविष्टा अकषायजीवा उत्कर्षतोऽपि एकस्मिन् समये संख्येया एव प्राप्यन्ते, उपशान्तमोहादि-गुणस्थानगतानामकषायजीवानामेव तद्भावात् ते चाऽकषायजीवा विहाय केवलिसमुद्घातं लोकासंख्येयभागप्रमाणात्स्वस्थानक्षेत्रादसंख्येयगुणं क्षेत्रं मारणान्तिकसमुद्घातेन पूरयन्तोऽपि लोकाऽसंख्य भागमात्रक्षेत्र- मेव व्याप्नुवन्ति, न पुनस्तदधिकम् । संख्येयानामकषायमनुष्याणां मरणसमुद्घातेन मनुष्यलोकादूर्ध्व-मनुत्तरविमानं यावत् सप्तरज्जुदीर्घस्य बाहल्यतः स्वशरीरप्रमाणस्य च स्वात्मप्रदेशदण्डस्य प्रसारणे ऽपि लोकासंख्येयभागमात्रावगाहनात्, वेदनादिशेष-समुद्घातापेक्षया तु स्वस्थानक्षेत्रतः संख्येयभाग-मात्राधिकक्षेत्रस्यैवाऽवगाहनाच्च । केवलिसमुद्घातेन तु एकेनाऽपि जीवेनोत्कृष्टतः परिपूर्णो लोकः पूर्यते, तथा चाऽकषायजीवोपेतमनुष्यगत्योघादिद्विचत्वारिंशत्मार्गणाभेदमध्ये मनोयोगपञ्चकादिषु केवलिसमुद्घातगतजीवप्रवेशाभावेन मारणसमुद्घाताद्याक्षिप्तं सत् समुद्घातक्षेत्रं लोकाऽसंख्येयभागमात्र मभिहितम्, मनुष्यगत्योघपर्याप्तमनुष्य- मानुषी - पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रिय-त्रसकायौष-पर्याप्तसकाय - काययोगौघ- कार्मणकाययोगा- ऽपगतवेदा ऽकषाय- केवलज्ञानसंयमौघ-यथाख्यातसंयम- केवलदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वौघक्षायिकसम्यक्त्वा ऽनाहारकलक्षणेषु 'ऽण्णत्थ' इत्यनेन संगृहीतेषु विंशतिसंख्याकेषु मार्गणाभेदेषु तु प्रत्येकं लभ्यते केवलिसमुद्घातगतजीवप्रवेशात्तदाक्षिप्तं प्रस्तुतं समुद्घातकृतक्षेत्रं परिपूर्णो लोक इति तथा भणितमिति ।
यद्यपीह कार्मणकाययोगवदौदारिकौदारिकमिश्र - काययोगयोः केवलिसमुद्घातगतजीवानां लाभस्तथाप्यष्टसामयिकस्य केवलिसमुद्घातस्य
४१