________________
इत्येतावति क्षेत्रे विद्यन्ते त एव व्यवहारनयदर्शने बादरापर्याप्ततेजत्कायिका इति व्यवहारभाजो भवन्ति, न तु शेषाः कपाटद्वयाद् बहिर्व्यवस्थिताः, स्वस्थान-समश्रेणिकपाटद्वयाव्यवस्थितत्वेन तेषां विषमस्थान-वर्तित्वात् । अर्थाद् येऽद्यापि कपाटद्वये न प्रविष्टा नापि तिर्यग्लोकं प्रविष्टास्ते पूर्वभवस्था एव गण्यन्ते व्यवहारनये । यथोक्तकपाटद्वय-तिर्यग्लोकाऽवगाढ-क्षेत्रं तु लोकाऽसंख्येयभाग-मात्रमेवेति व्यवहारनयमताभ्युपगमात् सूत्रे सर्वलोको न भणितमुपपात-क्षेत्रम् । ऋजुसूत्रनये तु यथोक्तकपाटद्वयतिर्यग्लोकतो बहि:स्थिता अपि अपर्याप्तबादरतेजस्कायिकाऽऽयुर्नामगोत्रोदयादपर्याप्त-बादरतेजस्कायिकत्वेन व्यपदिष्यन्त एव, तथा च तन्मताभ्युपगमादिह तेषामपर्याप्तबादरतेजस्कायिकानां क्षेत्रं सर्वलोको भणित-मित्येवं सर्वं सुस्थमेवेति ।।९।। उक्तशेषमार्गणाभेदेषु प्रस्तुतत्रिविधक्षेत्रमाहतिविहंपि य सेसेसु स
कसायजीवे पडुच्च इइ भणियं । "तिविह" मित्यादि, 'जगअसंखंसो' इत्येतदत्रापि संबध्यते, तथा च शेषेषु नरकगत्योघादिपञ्चोत्तरशतमार्गणाभेदेषपपात-समद्घातस्वस्थानभेदभिन्नं त्रिविधमपि नानाजीवाश्रयं क्षेत्रं लोकासंख्यभागप्रमाणं भवति । नरकगत्योघादिशेषमार्गणाभेदास्त्विमे-सर्वे 'नरकगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्-भेदाः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, सर्वे विकलेन्द्रिय-पञ्चेन्द्रियभेदाः, 'बादरपर्याप्त-पृथिव्य-प्तेजस्कायाः, 'पर्याप्तप्रत्येकवनस्पतिकायः, सर्वेत्रसकायभेदाः, "पंच मनोयोगभेदा, पञ्च"वचोयोगभेदाः, 'वैक्रिय-'वैक्रियमिश्रा-155हारका-55हारकमिश्रकाययोगभेदाः, 'स्त्री-पुरुषवेदी, अपगतवेदः, "मति-श्रुता-ऽवधि
मनःपर्यवज्ञानानि, 'विभङ्गज्ञानम्, संयमौघ-सामायिक छेदोपस्थापनपरिहारविशुद्धिक-सूक्ष्मसम्परायसंयम-देशसंयमाः, चक्षु-रवधिदर्शने, 'तेजःपद्मशुल्कलेश्याः, "सम्यक्त्वौघ-क्षायिक-क्षायो-पशमिकौपशमिकसम्यक्त्वानि, 'सम्यग्मिथ्यात्वं सास्वादनं 'संज्ञी चेति । एतासु त्रिविधमपि क्षेत्रं लोका-ऽसंख्येयभागमात्रं तु प्रत्येकं सूक्ष्माणामयपर्याप्तबादराणां पृथिवीकायिकादीनां पर्याप्तबादरवायुकायानां वाऽप्रवेशात् शेषाणां प्रविष्टानां पर्याप्तबादरपृथिवीकायिकादीनां तु तथास्वाभाव्यादेव रत्नप्रभादि-पृथ्वीपिण्डतयास्थितिमतां परिमाणतोऽपि असंख्येयलोकप्रदेशराशितोऽत्यन्तं हीनानामेकस्मिन् समये स्वस्थानवदुपपाततः समुद्घाततो वा लोकासंख्येय-भागादधिकक्षेत्रस्यानवगाहनात् ।
ननु भवतु नरकगत्योघादिषु यथोक्तनीत्या स्वस्थानादित्रिविधक्षेत्रस्य मनुष्यगत्योघादौ उपपातक्षेत्रस्य स्वस्थानक्षेत्रस्य च लोकासंख्येयभागमानता, न पुनर्मनुष्यगत्योघादौ समुद्धातक्षेत्रस्यापि सा घटामाकलयति, केवलिसमुद्घातगतेनैकेनापि केवलिभगवता एकस्मिन् समये उत्कर्षत: समग्रलोकस्य स्वात्मप्रदेशैः पूरणाद् ? इति चेद्, सत्यम्, परं यदे तदभिहितं क्षेत्रं तत्सकषायजीवानधिकृत्य, न पुनरकषायजीवानधिकृत्य, तथा चाह-"सकसायजीवे" इत्यादि; सकषायजीवानधिकृत्य 'इति' एवंप्रकारेण भणितं क्षेत्रम्, न च सकषायजीवानामसौ केवलि-समुद्घातो जायते, केवलिसमुद्घातं विहाय शेषसमुद्घाताक्षिप्तं क्षेत्रं तु नरकगत्योघादिमार्गणासु लोकाऽसंख्येयभागमात्रमेवेत्येवं सकषायजीवाधिकारान् न दोषलेशोऽपि । अत एवेह शेषमार्गणाभेदेषु अकषाय-केवलज्ञान-केवलदर्शन-यथाख्यातसंयमलक्षणा-श्चत्वारो मार्गणाभेदा न संगृहीता इत्यप्यवसातव्यमिति ।।