________________
4
लोयस्स असंखेज्जइभागे" ? इति चेत्, सत्यम्, परं तत्र उपपाततः "उववाएणं लोयस्स दोसु उड्ढकवाडेसु तिरियलोयतट्रे य" इत्यनेन यत् लोकासंख्येयभागमात्रक्षेत्रं भणितं तद्वयवहारनयं समाश्रित्य ज्ञेयम्, तद्वृत्तौ तथा व्याख्यातत्वात् । तथा चोक्तं तवृत्तौ- "तदेवमिदं सूत्रं व्यवहारनयप्रदर्शनेन व्याख्यातम्, तथा सम्प्रदायात, युक्तं चैतद, "विचित्रा सूत्राणां गतिः" इति वचनात्' इति । अत्र तु तदन्यक्षेत्रवदिदमपि क्षेत्रं ऋजुसूत्रनयानुसारेण प्रतिपादितं ज्ञेयम्, ऋजसवनये उदितबादराऽपर्याप्ततेजस्कायिकायुर्नामगोत्राणां बादरापर्याप्ततेजस्कायिकत्वेन व्यपदेशस्येष्टत्वात्, तथाविधानां तूक्तोर्ध्वकपाटद्वय-तिर्यग्लोकतो बहिरपि सर्वत्र लाभात् ।
एतदुक्तं भवति-समग्रलोकवतिसूक्ष्मजीव-राशितश्च्यत्वाऽपि अपर्याप्तबादरतेजस्कायिकत्वेन एक-द्वि-त्र्यादिवक्रेणोत्पद्यमाना जीवा लभ्यन्ते सर्वस्मिन्नपि लोके, तेषु च स्वस्थानप्राप्त्यभिमुखीभूतेषु जीवेषु ये जीवा अर्धतृतीयद्वीपसमुद्रलक्षणात् मनुष्यलोकान्निसृते बाहल्यतोऽप्यर्धतृतीयद्वीपसमुद्रमाने पूर्वापरदक्षिणोत्तरस्वयम्भूरमणसमुद्रपर्यन्ते ऊर्ध्वमधोऽपि च लोकान्तं स्पृष्टे ये कपाटे, तथा कपाटद्वयाऽप्रविष्टो यस्तिर्यग्लोकशेषभागः, स्थापना
('दोसु उडकवाडेसु तिरियलोयतट्टे य' इति व्यवहारनयप्रधानसूत्रानुसारेणाऽपर्याप्ततेजस्कायजीवानां क्षेत्रप्रदर्शकं चित्रम्-) (१) तिर्यग्लोकतम, ('तिरियलोयतढे य' इति पाठाधिकारे तु
एतावत् कपाटबहिर्वति तिर्यग्लोकक्षेत्रं न ग्राह्यम्) । (२) पूर्वा-ऽपरदिग्द्वयविस्तृतं बाहल्यतोऽर्धतृतीय-द्वीपसमुद्रमानं
षड्दिक्षु लोकान्तस्पृक् कपाटम् । (३) उत्तर-दक्षिणदिग्द्वयविस्तृतं बाहल्यतोऽर्धतृतीय-द्वीपसमुद्रमानं
षड्दिक्षु लोकान्तस्पृक् कपाटम् ।