________________
सम्बन्धादवसातव्यम् । तदुक्तम्
'कहि णं भंते !.............एत्थणं बादर-वायुकायियाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जेसु भागेसु. समुग्घाएणं लोयस्स असंखेज्जेसु भागेसु, सट्ठाणेण लोयस्स असंखेज्जेसु भागेसुं' इति ॥८॥
लोओ बायरभू-दग
ऽणल-पत्तेयतरुगेसु सिमपज्जेसुं । थूले य णिगोअतिगे
दुहा सठाणा भवे जगअसंखंसो ॥९॥ "लोओ" इत्यादि, 'लोकः' इत्यस्य 'द्विधा' इति परेणान्वयः, तथा सति बादरेषु पर्याप्ता उपर्याप्तविशेषणविरहितेष्वौषिकेषु ? पृथिव्यप्तेजस्कायौघ-लक्षणेषु मार्गणास्थानेषु, प्रत्येकवनस्पतिकायौघे, तथा “सिमपज्जेसुं" ति तेषां बादरपृथिवी-कायादिप्रत्येकवनस्पतिकायान्तानां चतुर्णाम् 'अपर्याप्तेषु' । अपर्याप्तबादरपृथ्वीकाया-ऽप्काय-तेजस्कायाउपर्याप्तप्रत्येकवनस्पतिकायलक्षणमार्गणाचतुष्टये इति भावः । तथा "थूले य" त्ति 'स्थूले'-बादरे निगोदत्रिके, ओघ-पर्याप्ताऽपर्याप्तभेदभिन्नबादरसाधारणवनस्पतिकायमार्गणाभेदत्रय इत्यर्थः । इत्येवं समुदितासु सर्वसंख्ययैकादशमार्गणासु प्रत्येकमुपपात-समुद्घातभेदाद् 'द्विधा' द्विविधं क्षेत्रं सर्वलोको भवति । एतास्वेवैकादशमार्गणासु जीवानां स्वस्थान-क्षेत्रं तु "जगअसंखंसो" त्ति लोकासंख्येयभागमात्रमेव भवति । तत्र द्विधा सर्वलोकः प्रत्येकं मार्गणासु असंख्यलोकपरिमितानां तदधिकानां वा जीवानां प्रविष्टत्वात्, लोकाऽसंख्येयभाग: पुनर्बादरपर्याप्ता-ऽपर्याप्तपृथिवीकायादितया रत्नप्रभादिभूमिपिण्डा
दावेवाऽवस्थानात् । यत उक्तम्__ 'कहि णं भंते ! बादरपुढवीकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा । सट्ठाणेण अट्ठसु पुढवीसु, तं जहा-रयणप्पभाए-सक्करप्पभाएवालयप्पभाए-पंकप्पभाए-धूमप्पभाए-तमप्पभाए-तमतमप्पभाए ईसीप्पम्भाराए, अहोलोएपायालेसु भवणेसु भवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु, उड्ढलोए-कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए-टंकेसु कूडेसु सेलेसु सिहरीसु पब्भारेसु विजयेसु वक्खारेसु वासेसु वासहरपव्वएसु वेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु, एत्थ णं बायरपुढवीकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जभागे समुग्घाएणं लोयस्स असंखेज्जभागे सट्टाणेणं लोयस्स असंखेज्जभागे । कहि णं भंते । बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरपुढवीकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उव्वाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे ।' इति । इत्थमेव बादराप्कायादिक्षेत्रविषयेऽपि सूत्रसंवादो द्रष्टव्य इति ।
ननु भवत्वेवमपर्याप्तबादरतेजस्कायमार्गणां विहाय बादरपृथिवीकायौघादिमार्गणास्थानेषु द्विधा लोकस्तथा स्वस्थानतो लोकाऽसंख्येयभाग: क्षेत्रम, अपर्याप्तबादरतेजस्कायमार्गणायां तु केवलं समुद्घातत एव तत्सर्वलोको भणितं सूत्रे, न पुनः शेषद्विविधमपि । तथा च श्रीप्रज्ञापनाग्रन्थ:-"कहि णं भन्ते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणं प०, गोयमा ! जत्थेव बायरतेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स दोसु उड्ढकवाडेसु तिरियलोयतट्टे य, समुग्वाएणं सव्वलोए, सट्ठाणेणं