________________
हवड़ तह अणाहारे
खित्तं तिविहंपि सव्वजगं ॥७॥ "तिरिये" इत्यादि, तिर्यग्गत्योधः, एकेन्द्रियौधः, पृथिवीकायौघः, अप्कायौघः, तेजस्कायौघः, वायुकायौधः, साधारणवनस्पतिकायौघः, "तेसिं सहमोहेसुं" ति एतेषामेकेन्द्रियौघादीनां षण्णां ये सूक्ष्मविशेषणविशिष्टा: षट् सूक्ष्मैकेन्द्रियौधादिलक्षणा: सूक्ष्मौघभेदास्तथा "तेर्सि च अपज्जपज्जेसं" ति तेषां सक्ष्मैकेन्द्रियौघादीनां षण्णां ये षडपर्याप्तसूक्ष्मैकेन्द्रियादिलक्षणाः षट् पर्याप्तसूक्ष्मैकेन्द्रियादिलक्षणाश्च मार्गणाभेदास्तेषु पञ्चविंशतिमार्गणाभेदेषु, तथा वनस्पतिकायौघकाययोगौघौ-दारिकौ-दारिकमिश्र-कार्मणकाययोग-नपुंसकवेदक्रोधादिकषायचतुष्टय-मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शनानि कृष्णाद्यप्रशस्तलेश्यात्रिक-भव्या-ऽभव्य-मिथ्यात्वाऽसंख्या-5ऽहार्य ऽनाहारिमार्गणास्वित्येवं सर्वसंख्ययाऽष्टचत्वारिंश-न्मार्गणास प्रत्येकं 'खेतं तिविहंपि सव्वजगं" ति उपपातादिभेदभिन्नं यथोक्तं त्रिविधमपि क्षेत्रं 'सर्वजगत' अशेषो लोको भवति, तद्धि प्रतिसमयं सर्वलोकव्यापिन: सूक्ष्मस्य पर्याप्तस्याऽपर्याप्तस्य वा पृथिवीकाया-द्यन्यतमजीवराशेः प्रत्येकं प्रवेशात्तथा ज्ञेयम् । तदुक्तं श्रीप्रज्ञापनागमे द्वितीये स्थानपदे
'कहि णं भंते ! सुहमपुढवीकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं य ठाणा पन्नत्ता ? गोयमा ! सुहुमपुढवीकाइया जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोगपरियावन्नगा प० समणाउसो !' इत्यादि । इत्येवमन्योऽपि वचनसंवादो द्रष्टव्य इति ॥५-६-७||
दुविहं इगिदियतिगे,
थूले पवणे अपज्जपवणे-य ।
सट्ठाणा हीणजगं, "दुविहं" इत्यादि, 'सव्वजगं' इत्यनन्तर-गाथात इहापि सम्बध्यते, तथा च 'स्थूले' बादरे एकेन्द्रियत्रिके एकेन्द्रियौघ-तत्पर्याप्ताऽपर्याप्तभेदत्रयाऽऽत्मके, तथा "पवणे" इत्यादि, 'थले' इत्यस्याऽनन्तरोक्तस्येहापि सम्बन्धाद् बादरवायुकायौघेऽप-र्याप्तबादरवायुकाये च 'द्विविधम्' उपपात-समुद्घातभेदभिन्नं नानाजीवसम्बन्धि यथोक्तलक्षणं क्षेत्रं सर्व-लोको भवति, न पुनः स्वस्थानादपि सर्वलोकः । “सट्ठाणा" त्ति स्वस्थानात्तु हीनमसंख्येयभाग-लक्षणेनैकदेशेन "जगत्"-लोको भवति । एतद्धि तत्तन्मार्गणास्थपर्याप्ता-ऽपर्याप्तान्यतरबादरवायुकायजीवाक्षिप्तं विज्ञेयम्, न तु वायुकायेतरबादरजीवापेक्षया, तेषां बादरपृथिव्यादीनां स्वस्थानतो लोकासंख्येयभागगतत्वात् । बादरवायुकायिकानां तु देशोनलोकवति-त्वाच्च । तदुक्तं श्रीप्रज्ञापनोपाङ्गे___ 'कहि णं भंते ! अपज्जबादरवायुकायियाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरवायुकायियाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरवायुकायियाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जेसु भागेसु' इति ।।
तिहावि पज्जत्तवाउम्मि ॥८॥ "तिहा" इत्यादि, 'थूले' इत्यस्यानन्तरोक्तस्येहापि सम्बन्धाद् बादरपर्याप्तवायुकाये त्रिधाऽपि, न पुनरनन्तरोक्तनीत्या केवलं स्वस्थानात्; त्रिधा, कियत् ? देशोनलोकः, तच्च 'हीणजग' मित्यस्येहापि
३३