________________
"संपइ" इत्यादि, संप्रतिकाले'-वर्तमानकाले जीवानां यत्रावस्थानं तत्क्षेत्रमुच्यते, स्पर्शना पुनरतिगते काले जीवानां यत्रावस्थानमित्येतल्लक्षणा । तत्र वर्तमानकाल: समयमात्रः, अतिगतस्त्वनन्तपुद्गल-परावर्तमान इत्येवं कालविशेषाक्षिप्तः क्षेत्र-स्पर्शनयोविशेषः । तत्र क्षेत्रं त्रिधा भवति, कथमित्याह-"उववाये" त्यादि, उपपातो नाम भवप्रथमसमयः, तत उपपातात्, उपपातापेक्षया क्षेत्रम्, नरकगत्योघादि- तत्तन्मार्गणानुरूपनारकत्वादितत्तत्पर्यायापन्नभवप्रथमसमय-वर्तिजीवराशिसमवगाढाकाशप्रदेशा इति यावत् । स्वस्थानं नाम उत्पत्त्युत्तरं तेन तेन नारकत्वादिभावेन यत्र जीवानां साहजिकमवस्थानम्, तदपेक्षया क्षेत्रं स्वस्थानक्षेत्रम् । समुद्घातस्तु 'वेयण कसाय मरणे वेउब्विय-तेयए य आहारे । केवलि य समुग्घाया' इति वचनात्सप्तविधः, तस्मात् समुद्घातात्, समुद्घातापेक्षयेत्यर्थः ।
इह सप्तविधसमुद्घातमध्ये वक्ष्यमाणक्षेत्रविशेष: स्पर्शनाविशेषश्च मारणान्तिकसमुद्घातापेक्षया केवलिसमधातापेक्षया वा विज्ञेयः, न पुनः शेष-पञ्चविधसमुद्घातापेक्षया, कथम् ? पञ्चविधसमुद-घातेन स्वस्थानादिक्षेत्रतोऽधिकक्षेत्रस्यावगाहभावेऽपि तथाविधक्षेत्रस्यस्वस्थानादिक्षेत्रतोऽसंख्येयभाग - लक्षणस्तोकमात्रांशेनाधिकतया भेदेनानुपलक्ष्यमाणत्वात्, तत्रैव मारणसमुद्धातसम्भवे तु तस्य मारणसमुद्घाताक्षिप्तक्षेत्रान्त:प्रविष्टत्वाच्च । अत एव यत्र समुद्घातकृतस्पर्शनाप्रतिषेधः करिष्यते तत्रासौ मारणान्तिकसमुद्घाताभावेन विशेषप्ररूपणाऽविषयत्वा-द्विज्ञातव्यः, न पुनः सर्वथा समुद्घाताभावात् ।
ननु शेषपञ्चविधसमुद्घातकृतक्षेत्रविशेषस्य मारणसमुद्घातकृतक्षेत्रान्तःप्रविष्टतया तत् पञ्चविधसमुद्घातकृतक्षेत्रं यदि नाधिक्रियेत
तदा तेनैव न्यायेन केवलिसमुद्घातकृतक्षेत्राऽन्तःप्रविष्टतया मारणसमुद्घातकृतक्षेत्रप्ररूपणमपि निरवकाशतामा स्कन्दते ? इति चेद, सत्यम्, परं न सर्वत्र मार्गणास्थानेषु केवलिसमुद्घातो लभ्यते, अपि तु केषुचिन्मनुष्य-गत्योघादिष्वेवाऽसौ प्राप्यते, तथा च मनुष्यगत्योघादिमार्गणास्थानानि विहाय सावकाशं मारणसमुद्घात-कृतक्षेत्रप्ररूपणम्, किञ्च मनुष्यगत्योघादिमार्गणास्थानेष्वपि सकषाया-ऽकषायजीवभेदेन क्षेत्रस्य प्ररूपणीयत्वात् तत्राऽपि तत् सावकाशमेवेति सर्वमनवद्यमिति । क्षेत्रप्ररूपणावदेव समुद्घातकृतस्पर्शनाप्ररूपणाऽपि मारणसमुद्घातकृतस्पर्शनां केवलिसमुद्घातकृतस्पर्शनां वाधिकृत्य बोद्धव्येति । तदेवं क्षेत्रत्रैविध्यमुपदर्शितम् ॥४॥
अथ यथोक्तोपपातादिभेदभिन्नत्रिविधक्षेत्रं प्रोक्तमार्गणाभेदेषु प्रतिपिपादयिषुरादौ तावत् सकषायजीवानधिकृत्य प्राह
तिरिये एगिदिय-भू
दग-अगणि-पवण-णिगोअओहेसुं । तेसिं सुहुमोहेसुं
तेसिं च अपज्ज-पज्जेसुं ॥५॥ वणओह-कायजोगो
रालिय तम्मीस कम्मजोगेसुं । कीवे कसायचउगे
दुअणाणा-ऽयत-अणयणेसुं ॥६॥ अपसत्थलेस-भवि-यरमिच्छत्तेसु अमणम्मि आहारे ।
३०