________________
च-छ-दु-सत्त-दुग-दुगं, चसयरिसयं कमा णेया ॥ ३ ॥
" गइ - इंदिए य" इत्यादि, इहोत्तरगाथाप्रान्त भणितेन 'कमा णेया' इति वचनेन गतीन्द्रियेत्यादीनां 'सगचते-गुणवीसे 'त्यादिभिर्यथासंख्यमन्वय:, तथा च सप्तचत्वारिंशद्गतिभेदाः । तद्यथा-नरक गत्योघः, रत्नप्रभादिपृथ्वीभेदभिन्नाः सतमनरकगत्युत्तरभेदाः, तिर्यग्गत्योघः, पञ्चेन्द्रियतिर्यगोघः, पर्याप्ताऽपर्याप्त तिरश्चीभेदात् त्रयः पञ्चेन्द्रियतिर्यगुत्तरभेदाः, मनुष्यगत्योघः, पर्याप्ताऽपर्याप्त मानुषीभेदतस्त्रयो मनुष्यगत्युत्तरभेदाः, देवगत्योघः भवनपतिव्यन्तर-ज्योतिष्कद्वादशकल्पोपपन्न-नवग्रैवेयक-पञ्चानुत्तरवैमानिकभेदभिन्ना एकोनत्रिंशदेवगत्युत्तरभेदा इति । 'इंदिए' त्ति एकोनविंशतिरिन्द्रिय-भेदाः । तद्यथा-एकेन्द्रियौघः, ओघ - पर्याप्ताऽपर्याप्तभेदात् त्रयः सूक्ष्मैकेन्द्रियभेदास्तथैव त्रयो बादरैकेन्द्रियभेदा इति समस्ताः सप्तैकेन्द्रियभेदाः; ओघ पर्याप्ताऽपर्याप्तभेदभिन्नास्त्रयो द्वीन्द्रियभेदास्तथैव त्रयस्त्रीन्द्रियभेदास्त्रयश्चतुरिन्द्रियभेदास्त्रयः पञ्चेन्द्रियभेदाश्चेति । 'काये' त्ति द्विचित्वारिंशत्कायमार्गणाभेदाः । तद्यथा - अनन्तरोक्तैकेन्द्रियमार्गणाभेदवत्सप्तपृथिवीकायभेदाः, सप्ताऽप्कायभेदाः सप्त तेजस्कायभेदाः, सप्त वायुकायभेदाः, वनस्पतिकायौघः, प्रागिव सप्त साधारणवनस्पतिकायभेदाः, ओघपर्याप्ताऽपर्याप्तभेदात् त्रयः प्रत्येकवनस्पतिकायभेदाः, तथैव त्रयस्त्रसकायभेदाश्चेति । "जोए" त्ति अष्टा दश योगमार्गणाभेदाः । तद्यथा- काययोगौघः, औदारिक- तन्मिश्र - वैक्रिय-तन्मिश्रा -ऽऽहारकतन्मिश्र - कार्मण - काययोगभेदभिन्नाः सप्त काययोगोत्तरभेदाः, मनोयोगसामान्यः सत्याऽसत्य - मिश्र-व्यवहारमनोयोग-भेदाच्चत्वारो मनोयोगोत्तर
२८
भेदाः, वचोयोगसामान्यः, सत्या - ऽसत्यादिभेदान्मनोयोगवच्चत्वारो वचोयोगोत्तरभेदाश्चेति । “वेए" त्ति स्त्री-पुरुष नपुंसकभेदात् त्रयो ऽपगतवेदश्चेति चत्वारो वेदमार्गणाभेदाः । "कसाय" ति क्रोध मान मायालोभभेदाच्चत्वारः, प्रतिपक्षस्यापि ग्रहणात्पञ्चमो ऽकषायभेदश्चेति । 'नाणे" त्ति मतिज्ञान - श्रुतज्ञाना - ऽवधिज्ञान- मनः पर्यवज्ञान- केवलज्ञानानि, प्रतिपक्षभूताज्ञानभेदानामपि ग्रहणात् मत्यज्ञान - श्रुताज्ञान- विभङ्गज्ञानानि चेति अष्टौ ज्ञानमार्गणा-भेदाः । "संजम" त्ति प्रागिव सप्रतिपक्षा अष्ट संयममार्गणाभेदाः । तद्यथा संयमौघ- सामायिक-छेदोपस्थापनीयपरिहारविशुद्धिक- सूक्ष्मसम्पराय यथाख्यातसंयम- देशसंयमाऽसंयमा इति । “दंसण"त्ति चक्षुर्दशना-ऽचक्षुर्दर्शना-ऽवधिदर्शन- केवलदर्शनभेदाच्चत्वारो दर्शनमार्गणाभेदा: । "लेसा" त्ति कृष्ण-नील- कापोततेज:-पद्म-शुक्लभेदात् षड् लेश्याभेदाः । "भव" त्ति भव्यस्तत्प्रतिपक्षभूताभव्यश्चेति द्वौ भेदाविति । "सम्मे" त्ति सम्यक्त्वौघः क्षायिकक्षायोपशमिको पशमिकसम्यक्त्व- सम्यग्मिथ्यात्व - सासादन- मिथ्यात्वानीति सप्रतिपक्षाः सप्तेति । "सन्नि" त्ति प्रतिपक्षसहितत्वात्संज्ञ्यसंज्ञी चेति द्वौ । तथैव "आहारे" त्ति आहारका ऽनाहारकाविति द्वौ भेदाविति । " चउसयरिसयं" ति तदेते नरकगत्योघाद्याः सर्वसंख्यया चतुःसप्तत्युत्तरशतं ज्ञेया इति ॥२-३॥
उक्ता नरकगत्योघाद्या अधिकृतमार्गणा भेदाः । एतर्हि यदुक्तम् 'क्षेत्रस्पशने ब्रवीमि' तत्र क्षेत्र - स्पर्शनयोर्विशेषं क्षेत्रभेदांश्चाह
संपइकाले खेत्तं,
फुसणा पुण होड़ अइगये काले ।
खेत्तं तिहोववाय-स
ठाण - समुग्घायभेयाओ ॥४॥
२९