________________
॥ श्री शंखेश्वरपार्श्वनाथाय नमः॥
श्री प्रेमसूरीश्वरगुरुभ्यो नमः चतुःसप्तत्युत्तरशतमार्गणास्थानान्यधिकृत्य नानासकषाया-ऽकषायजीवानां
क्षेत्र-स्पर्शनयोः प्रतिपादक स्वोपज्ञवृत्तिविभूषितं
क्षेत्रस्पर्शनाप्रकरणम्
नत्वा शर्खेश्वरं पार्श्व, गच्छेशं स्वगुरूंस्तथा । क्षेत्र-स्पर्शनसंदर्भः स्वोपज्ञस्तन्यते कियत् ॥
'नत्वा' कायवाङ्मनोयोगैः प्रणम्य 'स्वगुरूणां' भवविरागजनकसम्यग्दर्शन-ज्ञानादिप्रापक-पोषक-प्रवज्याप्रदायकादीनां गच्छाधिपति श्रीमत्प्रेमसूरीश्वरतातपादप्रभृतीनां प्रसादात् 'श्रुतानुसारेण' आगमार्थमनतिक्रम्य 'बेमि' त्ति ब्रवीमि, किमित्याह-'गइ' इत्यादि, गत्यादिषु 'गइ-इंदिए य' इत्यादिना गाथा-द्वयेन वक्ष्यमाणेषु सोत्तरभेदभिन्नेषु मार्गणास्थानेषु 'जीवानां' सकषाया-ऽकषायभेदभिन्नानां क्षेत्रस्पर्शने 'संपइकाले' त्यादिना वक्ष्यमाणस्वरूपे इति ।।
इह क्षेत्रस्य स्पर्शनायाश्च सकषाया-ऽकषायजीवभेदेन प्ररूपणं तु वक्ष्यमाणसमुद्घातकृतक्षेत्र-स्पर्शनयोरिणान्तिकसमुद्घात-केवलिसमुद्घातभेदेन प्रदर्शनार्थम्, अन्यथा तत्समुद्घातद्वयं विहाय शेषसमुद्घातकृतक्षेत्रस्पर्शनयोः स्वस्थानक्षेत्रस्पर्शनापेक्षयाऽविशिष्टत्वेऽपि विशिष्टस्य मारणसमुद्घातकृतक्षेत्रादिद्वयस्य सर्वलोकप्रमाणकेवलिसमुद्घातकृतक्षेत्राद्यन्तःप्रविष्टतया न स्यान्मनुष्यगत्योघादिमार्गणास्थानेषु यत्र केवलिसमुद्घातस्यापि सद्भावस्तत्र मारणसमुद्घातकृत-क्षेत्रादेविशेषतोऽवगम इति ॥१॥
अथ 'गत्यादिकेषु' इत्युक्तम्, तत्र गत्यादिकानेवाऽधिकृतसभेदप्रभेदानाह
गइ-इंदिए य काये,
जोए वेए कसाय-नाणे य । संजम-दसण-लेसा,
भव-सम्मे सन्नि-आहारे ॥२॥ सगचत्ते-गुणवीस-दु
चत्ता-ऽद्वार-च-पंच अट्ठ-ट्ठा ।
इह तावत्स्वपरहितकाम्यया यथार्थाभिधं क्षेत्र-स्पर्शनाप्रकरणमारिप्सुन्थिकृदादौ मंगलादिप्रतिपादिकां गाथामभिधत्ते
नमिउं अरिहंताई
सगुरुपसाया सुयाणुसारेणं । बेमि गइआइगेसुं
जीवाणं खित्त-फुसणाऊ ॥१॥ "नमिउँ" इत्यादि, इह पूर्वार्धेन मङ्गलसम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां-रागद्वेषाद्यान्तरशत्रणां हननात्, यद्वा चतुस्त्रिंशतमतिशयान् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हत्सिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानहदादीन्