________________
५२८]
[धर्मसंग्रह:-तृतीयोऽधिकारः "पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य ।
अकप्पिअं न इच्छिज्जा, पडिगाहिज्ज कप्पिअं" ॥१॥[ द.वै.६।४८ ] इति । ज्ञानाद्युपघाति च पिण्डादिकमुद्गमादिसप्तचत्वारिंशद्दोषदुष्टं सद्भवति। ते च दोषा अमी"सोलस उग्गमदोसा, सोलस उप्पायणाइ दोसा य ।
दस एसणाइ दोसा, गासे पण हुंति सगयाला" ॥१॥ [सं.प्र./७७८ ] व्याख्या -उद्गम -उत्पत्तिस्तद्विषया दोषा गृहस्थप्रभवा इत्यर्थः षोडश । तथोत्पादना –सम्पादनं तद्विषया दोषा मूलतः शुद्धस्यापि पिण्डस्य धात्र्यादिप्रकारैः साधुभिरुपार्जनं साधुप्रभवा इत्यर्थस्तेऽपि षोडश । तथैषणा -ग्रहणकालेऽशनादेः शङ्कितादिप्रकारैरन्वेषणम् , तद्विषया दोषा गृहिसाधूभयप्रभवा इत्यर्थस्ते दश । तथा ग्रासो –भोजनम् , तद्विषयाः पञ्च तद्वार एव वक्ष्यमाणाः । सर्वे च मिलिताः सप्तचत्वारिंशद् भवन्ति । तेषु च उद्गमादिद्वात्रिंशद्दोषा गवेषणैषणायाम् १, दश दोषा ग्रहणैषणायाम् २, पञ्च च ग्रासेषणायामिति विवेकः । उक्तं च -
"भणिआ गवेसणाए, गहणे गासे अ एसणा तिविहा ।
बत्तीसदसगपंचगदोसविमुक्का इमा कमसो" ॥१॥ [ य.दि.२१५ ] इति । तत्रोद्गमदोषा एवम् - "आहकम्मु १ देसिअ २, पूइकम्मे अ३ मीसजाए अ ४ । ठवणा ५ पाहुडिआए ६, पाओअर ७ कीय ८ पामिच्चे ९ ॥१॥ परिअट्टिए १० अभिहडु ११ ब्भिन्ने १२ मालोहडे अ १३ अच्छिज्जे १४ । अणिसिढे १५ अज्झोअर १६, सोलस पिंडुग्गमे दोसा" ॥२॥
[पिण्डवि० ३-४, पञ्चवस्तुके ७४१-२, प्रवचनसारो० ५६४-५] साधुं चेतसि आधाय -प्रणिधाय साधुनिमित्तमित्यर्थः कर्म –सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म १, यतः -
"सच्चित्तं जमचित्तं, साहूणऽढाए कीरए जं च ।
अच्चित्तमेव पच्चइ, आहाकम्मं तयं भणिअं" ॥१॥[पञ्च. ७४३] तथोद्देशो -यावदर्थिकादिप्रणिधानं तत्प्रयोजनमस्यौदेशिकम् , तत् ओघविभागभेदाद् द्विविधम् , तत्रौघेन -सामान्येन स्वपरविभागकरणाभावरूपेण स्वार्थ एव पाकादौ
१. गाथेयं पिण्डविशुद्धिवृत्तौ [गा० २] दृश्यते ॥ २. जे दोसा-सं०प्र० ॥ ३. मिलिय-सं०प्र० ॥ ४. पाउअरण-इति पञ्चवस्तुके ॥ ५. तुला-प्रवचनसारोद्धारटीका भा० ११ पृ० ३९६ ॥
D:\new/d-3.pm5\3rd proof