________________
भिक्षादोषा:४७-श्लो० ९३॥]
[५२९ कियद्भागभिक्षादानबुद्ध्या कतिपयतण्डुलाधिकप्रक्षेपेण निवृत्तमोघौद्देशिकम् , एतच्च प्रायो दुर्भिक्षापगमे कस्यचिद्धनिन एवं विकल्प उत्पद्यते –यदस्मिन् दुर्भिक्षे कथमपि जीविताः स्मः तीदानीं नित्यं कियन्मानं दीयते इति पुण्योपार्जनबुद्ध्या यावदर्थिकानामर्थमधिकतरपाकारम्भे भवति, तत्रैतावत्स्वार्थमेतावच्च दानार्थमिति विभागकरणाभावात् , कल्पितदिनादूर्ध्वं चैतच्छुद्धम् । ___विभागौद्देशिकं तु वीवाहादौ यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्भवति, तत्र स्वसत्ताया उत्तार्य दानार्थं पृथक्करणात् , तच्च त्रिधा -उद्दिष्ट १ कृत २ कर्म ३ भेदात् , तत्र स्वार्थनिष्पन्नौदनादेः संखण्ड्यादावुद्धरितस्य भिक्षूणां दानाय पृथक्कल्पितमुद्दिष्टौद्देशिकम् । १, यत्पुनरुद्धरितमोदनादि भिक्षादानाय दध्यादिना मिश्रीकृतं तत् कृतौदेशिकम् २, यच्च विवाहादावुद्धरितं मोदकचूर्णादि भिक्षाचराणां दानाय गुडपाकादिना पुनर्मोदकतया बद्धं तत् कमौद्देशिकम् ३। एकैकं पुनश्चतुर्द्धा -उद्देश १ समुद्देशा२ऽऽदेश३समादेशभेदात् , तत्र समस्तार्थिनां कृते कल्पितमुद्देशः १, चरकादिपाखण्डिकानामर्थं समुद्देशः २, निर्ग्रन्थशाक्यतापसगैरिकाऽऽजीविकानां श्रमणानां कृते चादेशाख्यम् ३, निर्ग्रन्थानां साधूनां कृते तु समादेशाख्यम् ४ इति, यतः -
"जावंतिअमुद्देसं, पासंडीणं भवे समुद्देसं ।
समणाणं आएसं, णिग्गंथाणं समाएसं" ॥१॥[पि.नि./२३०] इति । सर्वसङ्ख्याया विभागौद्देशिकं द्वादशविधं एकं चौघौदेशिकमिति त्रयोदशविधमेतद्भवति १, अत्रायं विवेकः -यत्प्रथमत एव साध्वर्थं निष्पादितं तदाधाकर्म, यत्पुनः प्रथमं स्वार्थं निष्पादितं तस्य साध्वर्थं पुनः संस्कार औद्देशिकम् २।
तथा आधार्मिकावयवसम्मिश्रं शुद्धमपि यत् तत्पूतिकर्म, अशुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् , तेन आधार्मिकाद्यवयवलेशेनापि संमिश्राः स्थालीचटुककरोटिकादयोऽपि हेयाः ३।
तथा मिश्रेण -स्वनिमित्तसाध्वादिनिमित्तरूपेण जातं पाकादि मिश्रजातम् , स्वार्थं साध्वाद्यर्थं चादित एव निष्पादितमित्यर्थः, तच्च यावदर्थिकमिश्रं १ पाखण्डिमिश्रं २ साधुमिश्र चेति ३ त्रिधा, श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं पृथक् नोक्तम् ४।
तथा स्थाप्यते -साधुनिमित्तं कियन्तं कालं निधीयते इति स्थापना, यद्वा स्थापनं - साधुभ्यो देयमिदमिति बुद्ध्या देयवस्तुनः कियत्कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना, सा च स्वस्थाने परस्थाने चेति द्विविधा, तत्र भक्तस्य स्वस्थानं चुल्ल्यादि, परस्थानं
D:\new/d-3.pm5\3rd proof