________________
५३०]
_ [धर्मसंग्रह:-तृतीयोऽधिकारः छब्बकादि, एकैकापि द्विधा -अनन्तरा परम्परा चेति, तत्राद्या घृतादिसम्बन्धिनी पर्यायान्तरासम्भवात् , इयं चोत्कर्षतो देशोनपूर्वकोटिं यावद्भवतीति चिराख्यापि, द्रव्यस्थितिं यावदवस्थानात् , परम्परा च क्षीरदधिम्रक्षणादीनाम् , विकारसम्भवात् तेषाम् , क्षीरस्य तद्दिने त्वाद्यैव, तथा गृहत्रयात् परतो साधुनिमित्तं हस्तगतापि भिक्षा स्थापनैव, पङ्क्तिस्थितगृहत्रयमध्ये तु एकस्मिन् विहरतो द्वयोस्तु द्वितीयसाधोरुपयोगसम्भवादित्वरी, इयं कल्प्या ५। ___ तथा कालान्तरभाविनो विवाहादेरिदानी संनिहिताः साधवः सन्ति तेषामप्युपयोगो भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमं संचिन्त्योत्कर्षणं वा, इयं च बादरा, सूक्ष्मा तु कर्त्तनादिव्यग्रा काचित् मण्डकादिप्रार्थनया रुदन्तं बालम् आश्वासयति यदुत मा रौदी:, समीपगृहागतो मुनिरस्मद्गृहे आयास्यति तदा तदर्थमुत्थिताऽहं तवापि दास्यामीति, ततश्च साधावागते तस्य भिक्षादानायोत्थिता बालस्यापि ददातीति उत्ष्वष्कणम् , एवं बालस्य पुम्भिकादिकर्त्तनं यावद्विलम्बयन्त्यपि साधुसमागमे तद्दानायोत्थिता बालकमपि ददातीति अवष्वष्कणमिति, तत्र च स्वयोगप्रवृत्तिकालावधेरुत् -ऊर्ध्वं पुरतः ष्वष्कणम् -आरम्भकरणम् उत्ष्वष्कणम् , तथा स्वयोगप्रवृत्तिकालावधेरव -अर्वाक् ष्वष्कणम् अवष्वष्कणमिति शब्दार्थः ६।
यदन्धकारव्यवस्थितस्य चक्षरविषयतया साधनामकल्प्यतां परिभाव्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिर्निष्काश्य द्रव्यधारणेन वा प्रकटकरणं तत्प्रादुष्करणम् , इदं च द्विधा -देयवस्तुनः प्रकाशनेन, गृहान्तर्वत्तिन्याश्चल्या बहिष्करणेन च ७। ____ यत्साध्वर्थं मूल्येन क्रीयते तत् क्रीतम् , तच्चतुर्द्धा-स्वद्रव्य १ स्वभाव २ परद्रव्य ३ परभावक्रीत४भेदात् , तत्र गृहिणोऽर्पितेन चूर्णगुटिकादिना साधुर्यल्लभते तत् स्वद्रव्यक्रीतम् १, भक्ताद्यर्थं धर्मकथाख्यानं तेन यदवाप्तं तत् स्वभावक्रीतम् २, गृहस्थ: सचित्ताचित्तमिश्रभेदद्रव्येण साध्वर्थं क्रीत्वा दत्ते तत् परद्रव्यक्रीतम् ३, साधुभक्तो मङ्खगायनादिः स्वविज्ञानेन रञ्जिताज्जनाद्याचित्वा यद् दत्ते तत् परभावक्रीतम् ४, ८)
यत्साध्वर्थमन्नादि वस्तु उच्छिन्नमानीयते तत् प्रामित्यकम् , तच्च लौकिकलोकोत्तरभेदाद् द्विविधम् , तत्र गृहस्थेनोच्छिन्नमानीय साधुभ्यो दत्तं लौकिकम् , साधुभिर्मिथ एवान्यार्पणबुद्ध्या वस्त्रादिकमुद्धारे गृह्यमाणं लोकोत्तरम् ९।
स्वद्रव्यं घृतादि दुर्गन्धं दत्त्वा परद्रव्यं सुगन्धिघृताद्येव गृहीत्वा यद् दीयते तत्परिवर्तितम् , इदमपि प्राग्वद् द्विविधम् १०।
१. C.P. | न्यास्तु या (वस्तूनां) बहि० मु० ॥
D:\new/d-3.pm53rd proof