________________
उद्गमदोषा:- श्लो० ९३॥]
[५३१ ___ गृहग्रामादेः साध्वर्थं यत्सम्मुखमानीतं तदभ्याहृतम् , तच्च प्रगटं परैख़तम् , छन्नं च परैरलक्ष्यम् , तथाऽऽचीर्णानाचीर्णादि बहुविधम् , आचीर्णं पुनरुत्कृष्टं क्षेत्रतो हस्तशताभ्यन्तरादानीतम् , गृहतस्तु गृहत्रयात् , तौकस्मिन् भिक्षाग्राहिण इतरयोईयोस्तु द्वितीयसाधोर्दायकाश्रितशुद्धयवलोकने उपयोगसम्भवात् , इत्वरस्थापनायां कालस्य विवक्षा अत्र तु क्षेत्रस्येति भेदः ११॥
कुतपादिस्थस्य घृतादेर्दानार्थं यन्मृत्तिकाद्यपनयनं तदुद्भिन्नम् १२।
यन्मालातः शिक्ककादेरपहृतं साध्वर्थमानीतं तन्मालापहृतम् , तच्चोधिउभयतिर्यग्मालापहृतभेदाच्चतुर्द्धा -तत्रोपरिस्थितं चन्द्रशालासिक्ककादिस्थम् १ अधःस्थितं भूमिगृहादिस्थम् २ उभयस्थितं कुम्भीकोष्ठिकादिस्थं पाण्र्युत्पाटनाबाहुप्रसारणाच्च ३ तिर्यस्थितं पृथिवीगतकष्टप्राप्याधारस्थम् ४, १३।
यदाच्छिद्य परकीयं हठाद् गृहीत्वा दत्ते तदाछेद्यम् , तत्स्वामिप्रभुचौरलक्षणाच्छेदकभेदैस्त्रिविधं, तत्र स्वामी राजा, प्रभुर्गृहपतिः १४।
यद्गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित् साधुभ्यो दत्ते तदनिसृष्टम् , तच्च साधारणचोल्लगजडानिसृष्टभेदात् त्रिविधम् , तत्र साधारणं बहुस्वामिकम् १, चोल्लक: स्वाम्यादिना सेवकादीनामेकत्र क्षेत्रादौ प्रसादीकृतं भक्तादि तद्विषयम् दानं चोल्लकम् २, जड्डो हस्ती तत्पिण्डमध्याद् दत्तं जड्डम् ३, १५।
स्वार्थमधिश्रयणे दत्ते सति साध्वादिसमागमश्रवणात् तदर्थं पुनर्यो धान्यावापः सोऽध्यवपूरकः, स च यावदर्थिक १ पाखण्डि-२ साधु ३ निमित्तभेदात् विधेति १६। ____षोडशाप्युद्गमदोषा उक्ताः, एतेषु च आधाकर्म १ औद्देशिके चरमत्रिकं पाखण्डश्रमणनिर्ग्रन्थविषयं समुदेशादेशसमादेशलक्षणं कर्मभेदत्रयम् ४, तथा मिश्रजाताध्यवपूरकयोरन्तिमद्विकं पाखण्डियतिविषयलक्षणं ८ आहारपूति: ९ बादरप्राभृतिका चेति १० दोषदशकमविशोधिकोटि, न विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नुङ्क्ते सति साऽविशोधिः, सा चासौ कोटि: -भेदश्चेति समासः । उक्तं च -
"इअ कम्मं उद्देसिअतिअमीसज्झोयरंतिमदुगं च ।
आहारपूड़ बायरपाहुडि अविसोहिकोडि त्ति" ॥१॥[पि.वि./५३] अस्याश्चावयवेन-शुष्कसिक्थादिना तथा तक्रादिना लेपेन वल्लादिनाऽलेपेन च
१. दानं चोल्लकम्-मु० C. नास्ति ।। २. तत्पिण्डमध्याहृतं जडम् C. नास्ति ।। ३. मद्विकं द्वयोरपि पाखण्डियतिविषयौ द्वौ द्वौ ८-C.P. मूल ।।
D:\new/d-3.pm53rd proof