________________
५३२ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
संसृष्टं यच्छुद्धं भक्तं तस्मिन्नुज्झितेऽपि अकृतकल्पत्रये पात्रे शुद्धमपि भक्तं परिगृह्यमाणं न शुद्धं भवति । यतः -
"तीइ जुअं पत्तं पि हु, करीसनिच्छोडिअं कयतिकप्पं ।
कप्पइ जं तदवयवो, सहस्सघाई विसलवु व्व" ॥१॥ [ पि.वि./५४ ] इति । शेषास्तु विशोधिकोटिरूपाः । उक्तं च
‘“उद्देसिअंमि नवगं, उवगरणे जं च पूइअं होइ । जावंतिअमीसगयं, अज्झोअरए अ पढमपयं ॥१॥ [ पि.नि./३९५वृ.] परिअट्टिए अभिहडे, उब्भिन्ने मालोहडे इअ ।
अच्छिज्जे अणिसिट्टे, पाओअरकी अपामिच्चे ॥२॥ [पि.नि./३९५वृ.] सुहुमा पाहुडिआवि अ, ठविअगपिंडो अ जो भवे दुविहो । सव्वो वि एस रासी विसोहिकोडी मुणेअव्वो" ॥३॥ [ पि.नि./३९५वृ.] एषामविशुद्धकोट्यंशे उद्धृते शेषभक्तस्य शुद्धता भवति । यतः - "सेसा विसोहिकोडी, तदवयवं जं जहिं जहापडिअं ।
असढो पास तं चित्र, तओ तया उद्धरे सम्मं ॥ १ ॥ [ पि.वि. / ५५ ] इति
अविशोधिकोट्यंशत्यजनं चासंस्तरणे, संस्तरणे तु शुद्धमशुद्धं च सर्वमपि त्यजन्ति,
घृतादौ दुर्लभद्रव्ये तु अविशुद्धमात्रमेव त्यजन्ति न तु सर्वमिति विवेकः ।
यदुक्तं पिण्डनिर्युक्तौ -
"तं चेव असंथरणे, संथरणे सव्वमवि विगिंचिति ।
दुल्लहदव्वे असढा, तत्तिअमित्तं चिअ चयंति" ॥१॥ [ पि.वि./५६ ] इति । उत्पादनादोषा अपि षोडश । यथा -
"धाई १ दूई २ निमित्ते ३, आजीव ४ वणीमगे ५ तिगिच्छा य ६ ।
को ७ मा ८ माया ९, लोहे १० अ हवंति दस एए ॥१॥ [ पि.नि. ४०८, प्र.सा.५६६ ] पुव्विंपच्छा संथव ११ विज्जा १२ मंते अ १३ चुन्न १४ जोगे अ १५ । उप्पायणाइ दोसा, सोलसमे मूलकम्मे अ १६" ॥२॥ [ पि.नि. ४०९, प्र. सा. ५६७ ] बालस्य क्षीर-मज्जन-मण्डन- क्रीडना -ऽङ्कारोपणकर्मकारिण्यः पञ्च धात्र्यः, एतासां कर्म भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः १।
मिथः संदेशकथनं दूतीत्वम्, तत्कुर्वतो भिक्षार्थं दूतीपिण्डः २ अतीतानागतवर्त्तमानकालेषु लाभादिकथनं निमित्तम्, तद्भिक्षार्थं कुर्वतो निमित्त
पिण्डः ३ |
D:\new/d-3.pm5\3rd proof