SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उद्गमदोषा:- श्लो० ९३॥] [५३३ जाति-कुल-गण-कर्म-शिल्पादिप्रधानेभ्य आत्मनस्तत् तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्ड: ४। ___ श्रमण-ब्राह्मण-क्षपणा-ऽतिथि-श्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत् तद्भक्तं दर्शयतो वनीपकपिण्ड: ५। वमन-विरेचन-बस्तिकर्मादि कारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डार्थं चिकित्सापिण्ड: ६। विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थं कुर्वतः क्रोधपिण्ड: ७। लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्ड: ८। नानावेषभाषापरिवर्त्तनं भिक्षार्थं कुर्वतो मायापिण्ड: ९। अतिलोभात् भिक्षार्थं बहु पर्यटतो लोभपिण्ड: १०। पूर्वसंस्तवं जननीजनकादिद्वारेण, पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्मपरिचयानुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्वपश्चात्संस्तवपिण्ड: ११॥ विद्यां मन्त्रं चूर्णं योगं च भिक्षार्थं प्रयुञ्जानस्य चत्वारोऽपि विद्यादिपिण्डाः, मन्त्रजापहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या १२। पाठमात्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः १३। चूर्णानि नयनाञ्जनादीनि अन्तर्धानादिफलानि १४। पादप्रलेपादयः सौभाग्यदौर्भाग्यकराः योगाः १५। गर्भस्तम्भन-गर्भाधान-प्रसव-स्नपनक-मूलरक्षाबन्धनादि भिक्षार्थं कुर्वतो मूलकर्मपिण्ड: १६। इत्युक्ता उत्पादनादोषाः षोडश । एतैश्चोद्गमोत्पादनादोषैरदूषितं पिण्डं गवेषयतीति गवेषणैषणा। अथ ग्रहणैषणा, तदोषाश्च दश । तदुक्तं पिण्डविशुद्धौ - "इअ वुत्ता सुत्ताओ, बत्तीस गवेसणेसणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते अ इमे ॥१॥ संकिअ १ मक्खिअ २ निक्खित्त ३, पिहिअ ४ साहरिअ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिअ १०, एसणदोसा दस हवंति" ॥२॥ [पिं.वि. ७६-७७, पिण्डनियुक्ति ५२०, प्रवचनसारो. ५६८ ] आधाकर्मादिशङ्काकलुषितो यदन्नाद्यादत्ते तच्छङ्कितम् , अत्र शङ्कितो ग्रहणे भोजने चेत्यादिका चतुर्भङ्गी, तत्राद्यो ग्रहणकाले लज्जावशादपृच्छायाम् , भोजनकालेऽपि शङ्कानपगमे D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy