________________
५३४]
[ धर्मसंग्रहः - तृतीयोऽधिकारः भवति १। ग्रहणे शङ्कितः कथञ्चित्तदवगमान्निःशङ्कितश्च भोजने इति द्वितीयः २। नि:शङ्कितो ग्रहणे कुतोऽपि हेतोर्दोषाशङ्कायां शङ्कितो भोजने चेति तृतीयः ३ । नि:शङ्कितो ग्रहणे भोजने चेति तुर्यः ४। तेषु द्वितीयतुर्यौ शुद्धौ निःशङ्कितभोजनात्, तत्र चोद्गमदोषषोडशकं म्रक्षणाद्येषणानवकं चेति पञ्चविंशतीनां मध्ये येन दोषेण शङ्कितं भवति तं दोषमाप्नोति १।
पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गर्हितैराश्लिष्टं यदन्नादि तन्म्रक्षितम्, अत्र च गर्हितद्रव्यैर्ग्रक्षितं सर्वथाऽकल्प्यम्, घृतादिना म्रक्षितं तु लग्नकीटिकादियतनायां कल्प्यमपि, अत्र हस्तपात्रखरण्टनविषया चतुर्भङ्गी, तुर्यो भङ्गः शुद्धः, शेषेषु पुरःकर्मादिदोषसम्भवादशुद्धता, तत्र पुरःकर्म भक्तदानात् प्राक् यतिनिमित्तं हस्तादिधावनम् पश्चाद् धावनं च पश्चात्कर्मेति २
"
पृथव्युदकतेजोवायुवनस्पतित्रसेषु यदन्नाद्यचित्तमपि स्थापितं तन्निक्षिप्तम्, तच्चानन्तरम् [ व्यवधानेन परम्परं वस्त्वन्तर] व्यवधानेनेति षट्स्वपि स्वयमभ्यूह्यम्, तत्र परम्पर निक्षिप्तम् सचित्तसङ्घट्टपरिहारेण यतनया ग्राह्यम्, तेजस्का परम्परनिक्षिप्तस्य ग्रहणेऽयं विशेष: प्रवचनसारोद्धारवृत्तावुक्तः - चुल्ल्युपरि विशालमुखे सर्वतो मृत्तिकया लिप्तावकाशे च कटाहेऽचिरप्रक्षिप्त इक्षुरसोऽनत्युष्णो दीयमानः कल्प्यः, मृदा लिप्तत्वाद् दीयमाने क्षुररसस्य बिन्दुर्न चुल्लीस्थवह्नौ पतति, विशालमुखत्वाच्चोदञ्चनपिठरस्य तत्कर्णेऽलगनान्न भङ्गः, अचिरक्षिप्तत्वाच्च नात्युष्ण इति दातुर्ग्रहीतुश्चादहनमिति ३ ।
सच्चित्तेन फलादिना स्थगितं - पिहितम्, इदमप्यनन्तरं परम्परं च तत्र परम्परं यतनया ग्राह्यम् ४।
दानानुचितं सचित्तेषु पृथिव्यादिषु अचित्तेषु वा केषुचित् पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं ददतः संहृतम्, अत्र सचित्ते सचित्तं संहृतमित्यादि चतुर्भङ्ग्यां तुर्यः शुद्धः ५ ।
'दायग' त्ति बाल-वृद्ध - पण्डक - वेपमान- ज्वरिता - ऽन्ध - मत्तोन्मत्त - करचरणनिगडितपादुकारूढ-कण्डक-पेषक - भर्जक - कर्त्तक- लोढक- वीङ्खक-पिञ्जक-हलक- व्यालोडकभोजक-षट्कायविराधका दातृत्वेन प्रतिषिद्धा, या च स्त्री वेलामासवती गृहीतबाला बालवत्सा वा एभ्योऽन्नादि ग्रहीतुं साधोर्न कल्पते, अत्रोत्सर्गापवादावनुपदमेव स्फुटीभविष्यतः ६ । देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रम् ७
देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनादपरिणतम्, तत्सामान्यतो द्रव्यभावाभ्यां द्विधा, एकैकं पुनर्द्विधा, दातृविषयं गृहीतृविषयं चेति, तत्र द्रव्यरूपमपरिणतम् अप्रासुकमेव, तच्च दातुः
१. P. I या:- मु० C. ॥ २. कल्पम् - P. C. II ३. कोष्टकान्तर्गतः पाठः C. प्रतौ पार्श्वभागे वर्तते ॥ ४. प्रवचनसारोद्धारे प्रथमखण्डे ४३५ तमपत्रे द्रष्टव्यम् ॥
D:\new/d-3.pm5\3rd proof