________________
ग्रहणैषणादोषाः-श्लो० ९३॥]
[५३५ सत्तायां वर्तमानं दातृविषयं ग्रहीतुः सत्तायां च ग्रहीतृविषयम् , भावापरिणतं तु द्वयोर्देयस्वामिनोर्मध्यादेकस्य दानाध्यवसायाभावात् यतेर्वा साधुसङ्घाटकमध्यादेकस्य मनसि शुद्धं परिणतं नान्यस्येति ग्रहीतृविषयं भावतोऽपरिणतम् , एतच्च साधूनामकल्प्यंशङ्कितत्वात्कलहादिदोषसम्भवाच्च । इह दातृभावापरिणतस्य साधारणानिसृष्टस्य च दातृसमक्षासमक्षकृतो विशेषः ८।
दधि-क्षीर-तक्र-तीमनादिलिप्तम् हस्तपात्रादिलेपकारित्वादुत्सर्गत: साधुभिर्न ग्राह्यम् , अलेपकृद्वल्लचनकाद्येव ग्राह्यम् , पुष्टकारणे तुलेपकृदपि कल्पते, योगशास्त्रवृत्तौ तुवसादिना लिप्तमित्युक्तम् । अत्र च संसृष्टासंसृष्टहस्तसंसृष्टासंसृष्टमात्रकसावशेषनिरवशेषदेयद्रव्यैश्च त्रिभिः पदैरष्टौ भङ्गाः । स्थापना यथा -तत्र विषमभङ्गेषु गृह्यते भक्तादि, न समेषु , अयं भावः –संसृष्टयोरसंसृष्टयोर्वापि हस्तमात्रयोर्न पश्चात्कर्मसम्भवः, किं तर्हि? द्रव्यनिरवशेषताप्रतिनियतः, सावशेषे द्रव्ये तु पुनः परिवेषणसम्भवान्न पश्चात्कर्मसभवः, इति विषमेषु कल्पते ९।
सं० ह० सं० मा० सा० द्र १ सं० ह० सं० मा० नि० द्र २ सं० ह० सं० मा० सा० द्र ३ सं० ह० ऽसं मा० नि० द्र ४ ऽ सं० ह० सं० मा० सा० द्र ऽ सं० ० सं०
मा० नि० ऽ सं० ह० सं० मा० सा० द्र ७
ऽ सं० ह० सं० मा० नि० द्र ८ घृतादि छर्दयन् यद् ददाति तच्छतिम् , छद्यमाने च घृतादौ तत्रस्थस्यागन्तुकस्य वा जन्तोर्मधुबिन्दूदाहरणेन विराधनासम्भवात् १०। इत्युक्ता दश ग्रहणैषणादोषाः । संमिलिताश्च द्विचत्वारिंशद् भवन्ति इति ।
पिण्डविशुद्धिश्च सपेण भण्यमाना नवसु कोटीषु अन्तर्भवति, ताश्चेत्थम् - न स्वयं हन्ति न च क्रीणाति न च पचति इति त्रयम् एवं कारणानुमतिभ्यामपीति नवभिविभागैः सर्वापि पिण्डविशुद्धिः संगृह्यते । यदुक्तम् -
"पिंडेसणा य सव्वा, संखित्ता अवतरड् नवसु कोडीसुं ।
न हणइ न किणइ न पेयइ करावणअणुमईहिं वा" ॥१॥[ द.वै./नि.२४०] एवं च सकलदोषरहितं पिण्डं गृह्णातीति ग्रहणैषणा, इयं चैकादशभिर्दारैरनुगन्तव्या । तथा चोक्तमोघनिर्युक्तौ -
१. P. । न-मु० C. नास्ति ।। २. P. । पयई-मु० C. ||
or or mosw9.
D:\new/d-3.pm53rd proof