________________
५३६ ]
"ठाणे अ १ दायए चेव २, गमणे ३ गहणा ४ ऽऽगमे ५ ।
पत्ते ६ परिअत्त ७ पडिए अ ८ गुरुअं ९ तिहा १० भावे ११" ॥१॥ [ ओ.नि./४६२]
व्याख्या-पिण्डग्रहणं कुर्वता स्थानत्रयं परिहरणीयम्, तद्यथा—आत्मोपघाति १ संयमोपघाति २ प्रवचनोपघाति चेति ३, तत्राद्यं गवादिस्थानम्, तत्र स्थितेन भिक्षा न ग्राह्या, गवादिकृतोपद्रवसम्भवादेवमग्रेऽपि दोषा ऊह्याः, संयमोपघाति च सचित्तपृथिव्यादि, अथवा भिक्षादात्री यत्र स्थिताऽध उपरि च फलादि सङ्घट्टयति तादृग् स्थानम्, प्रवचनोपघाति च निर्द्धमनाद्यशुचिस्थानमिति १ ।
तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः योऽव्यक्तादिरूपो न भवति । अव्यक्तादयस्त्विमे
'अव्वत्त १ अपहु २ थेरे ३, पंडे ४ मत्ते अ ५ खित्तचित्ते अ ६ ।
दित्ते ७ जक्खाइट्ठे ८, कर ९ चरणछिन्नं १० ध ११ णिअले अ १२ ॥१॥ [ ओ.नि./४६७]
तद्दोस १३ गुव्विणी १४, बालवच्छ १५ कंडंति १६ पीसयज्जंती १७ । कन्तंती १८ पिंजंती १९, भइआ दगमाइणो दोसा" ॥२॥ [ ओ.नि./ ४६८ ]
अव्यक्तोऽष्टानां वर्षाणामधो बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यते, तद्धस्ताद् ग्रहणे मात्रादेः सर्वं मुषितमित्यादिप्रद्वेषापत्तेः, एवमग्रेऽपि भाव्यम् १। अप्रभुर्भृतकादिः, तस्मादपि ग्रहणे पूर्वोक्तो दोष: २ । स्थविरः सप्ततिवर्षाणां मतान्तरे च षष्टिवर्षाणामुपरिवर्त्ती तस्य ददतः कम्पनेन पतनं स्यादित्यादिदोषः ३ । पण्डको नपुसंकः, तस्माद् भिक्षाग्रहणे कामित्वात् क्षोभणादिदोषः ४ । मत्तः सुरादिपानी तस्माद् ग्रहणे तदालिङ्गनपात्रादिभञ्जनादिदोषाः ५। क्षिप्तचित्तः चित्तविभ्रमी ६ । दिप्तो महाकार्यकरणेनोत्कर्षवान् ७| यक्षाविष्टः प्रतीतः ८। एतेभ्योऽपि आलिङ्गनादयो दोषाः । छिन्नकराद् ग्रहणेऽशुचित्वदेयपतनादयो दोषाः ९ । छिन्नचरणादपि पतनादिः १० । अन्धात् षट्कायवधः ११ । निगडितात् तत्पतनादिः १२ । तथा तद्दोस'त्ति त्वग्दोषी कुष्ठी तस्मादशुचित्वं कुष्ठसङ्क्रमश्च १३ । गुर्विण्या ग्रहणे तदुत्थानोपवेशनाभ्यां गर्भबाधा १४ बालवत्साया भूमौ बालस्य मोचने माञ्जा (र्जा) र्यादिकृतोपद्रवादिदोषाः १५ । कण्डयन्त्या ग्रहणे बीजसङ्घट्टादिदोषाः १६ । पेषयन्ती च शिलायां गोधूमादीन् तस्याश्चोत्तिष्ठन्त्या हस्तधावनादयो दोषाः १७ | कर्त्तयन्त्या निष्ठीवनलिप्तौ हस्तौ तत्प्रक्षालने च पुरः
44
[ धर्मसंग्रहः - तृतीयोऽधिकारः
१. कंडंत पीसभज्जंती- इति ओघनिर्युक्तौ । " तथा पिषन्ती गोधूमादि, तथा भर्जयन्ती यवधान्यादि, तथा केषाञ्चित्पाठो भुञ्जन्ती" इति ओघनियुक्तिवृत्तौ प० १६३ A ॥ २. पिंषन्ती-इति ओघनिर्युक्तिवृत्तौ ॥ ३. कृन्तन्त्यां - इति प्रवचनसारोद्धारवृत्तौ भा० १ प० ४४३॥
D:\new/d-3.pm5\3rd proof