________________
ग्रहणैषणायां द्वाराणि -श्लो० ९३॥]
[५३७ कर्मादिदोषाः १८। एवं पिञ्जयन्त्याः १९। एतेभ्योऽव्यक्तादिपिञ्जयन्तीपर्यन्तेभ्यो भिक्षा न ग्राह्या ।
अत्रापवादमाह-'भइअ'त्ति एतेभ्यो ग्रहणे विकल्पना कर्त्तव्या, नत्वेकान्तेन निषेधः, 'दगमाइणो दोस'त्ति एतेषु दातृषु आचमनोदकप्रोज्झनादिदोषाः स्युस्ते च भाविता एव, अथ भजना यथा बालेन भिक्षामात्रं दीयमानं गृहपतिसंदिष्टेन वा तत्प्रत्यक्षं प्रभूतमपि गृह्यते इत्यव्यक्ते यतना १, अप्रभावप्येवम् २, स्थविरेण च परेण धृतेन दीयमानं गृह्यते ३, अप्रतिसेविनश्च पण्डकाद् गृह्यते ४, मत्तश्च यदि श्राद्धो भवति अल्पसागरिकश्च तदा तद्धस्ताद् गृह्यते ५, क्षिप्तचित्तदीप्तयक्षाविष्टा अपि यदि साधुवासनावन्तस्तदा तेभ्योऽपि ग्राह्यम् ६-८, करच्छिन्नादल्पसागारिकाद् गृह्यते ९, चरणच्छिन्नात्तूपविष्टादल्पसागारिकाच्च गृह्यते १०, अन्येनाकृष्टाच्चान्धाद् गृह्यते ११, परिष्वष्कितुं शक्यान्निगडिताद् गृह्यते १२, अगलत्कायाच्च कुष्ठिनोऽपि गृह्यते १३, गुर्विण्याश्च मासाष्टकं यावत्स्थविरकल्पिका: गृह्णन्ति, न तु वेलामासादूर्ध्वम् , जिनकल्पिकादयस्तु निरपवादा गर्भोत्पत्तेरेवारभ्य न गृह्णन्ति १४, तथा स्थविरकल्पिकाः स्तनोपजीविबालयुक्तबालवत्साया हस्तान्न गृह्णन्ति, जिनकल्पिकादयस्तु यावद्बालस्तावद्वालवत्सां परिहरन्ति १५, कण्डयन्त्याश्च हस्ते मुशलमुत्क्षिप्तम् भवति, अत्रान्तरे साधुरागतोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा ददत्या गृह्यते १६, अचेतनं पेषयन्त्याश्चापि गृह्यते, यदि सचित्तं पूर्वं प्रक्षिप्तम् तत् पिष्टम् , अन्यदद्यापि न प्रक्षिप्यते, साधुश्च तत्रावसरे प्राप्तस्ततस्तस्या गृह्यते इत्यर्थः एवं भर्जयन्त्यामपि यतना भुञ्जानाया अपि हस्ताद् गृह्यते यद्यद्यापि न विट्टालयति भाजनगृहीतं भक्तमिति १७, स्थूलं कर्त्तयन्त्याश्च हस्ताद् गृह्यते तत्कर्त्तने निष्ठीवनलेपाभावात् १८, लोटयन्त्याश्चापि पेषयन्तीव यतना १९, पिञ्जयन्त्या अपि हस्ताद् गृह्यते, यद्यसौ अशौचवादिनी भवति, तस्या हस्तप्रक्षालनाभावात् २०। इत्युक्तो दातृविषयोऽपवादः २।
अथ मूलद्वारगाथोक्तं गमनद्वारम् , तत्र गमनं भिक्षाग्रहणार्थं दातुरभ्यन्तरप्रवेशः, तच्च साधुना निरीक्षणीयम् , यतोऽयतनया गमनं कुर्वन् दाता भुवि षडपि कायान् उपरि वृक्षशाखादीन् तिर्यग् बालादीन् संघट्टयतीति साधोः संयमविराधना, दातुश्च सर्पादिदशनेनात्मविराधना भवतीति तस्माद् भिक्षा ना ग्राह्या ३।
तथा ग्रहणं-ग्रहणस्थानं यस्मात् स्थानात् भिक्षा दात्रा दानार्थं गृह्यते तत् साधुना निरीक्षणीयम् , यदि च नीचैरिण वा पिहितकपाटेन वा दातृशरीरादिरुद्धद्वारेण वा
D:\new/d-3.pm53rd proof