________________
भिक्षाविधिः - श्लो० ९३ ॥ ]
कालाभिग्रहो यथा -
"काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे ।
अप्पत्ते सइकाले, आईबितिमज्झतइअंते" ॥१॥ [प.व./३०१ ]
अप्राप्ते भिक्षाकाले सति अटतः आदिः, मध्ये भिक्षाकालेऽटतो द्वितीयः, अन्त इति भिक्षाकाले(लस्य) अवसानेऽटतस्तृतीयः ३ | भावाभिग्रहमाह
—
“उक्खित्तमाइचरगा, भावजुआ खलु अभिग्गहा हुंति ।
गायंतो अरुअंतो, जं देइ निसन्नमाई वा" ॥१॥ [ प.व./३०३] उत्क्षिप्ते भाजनात् पिण्डे चरति - गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनात् त एते भावयुक्ताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इत्यर्थः, अथवा गायन् रुदन् निषण्णादिर्वा यदा दत्ते तदा ग्रहीष्यामीत्यादिरूपः
44.
[ ५२७
'उस्सक्कण अहिसक्कण, परंमुहोऽलंकिएअरो वावि ।
भावन्नयरेण जुओ, अह भावाभिग्गहो नाम" ॥१॥[प.व./३०४] अवसर्पन् उत्सर्पन् पराङ्मुखोऽलङ्कृतः कटकादिना इतरो वा - अनलङ्कृतो वा भावेनाभ्यन्त(नान्यत)रेण युक्तः अथायं भावाभिग्रहः ४ । अभिग्रहविषयोपदर्शनायाह - "पुरिसे पडुच्च एए, अभिग्गुहा णवरि एत्थ विण्णेआ ।
सत्ता विचित्तचित्ता, केई सिज्झति एमेव" ॥१॥ [प.व./३०५ ]
पुरुषान् प्रतीत्य एवंविधक्रियान्वितविनेयानेते अभिग्रहा अत्र - शासने नवरं ज्ञेयाः, किमेतदाह – सत्त्वा विचित्रचित्ताः केचन सिद्ध्यन्ति कर्ममलापेक्षया एवमेव – अभिग्रहसेवनेनेति । अनेन च विधिना पिण्डैषणादिकुशलो यतिर्ज्ञानादित्रयोपघातभूतं पिण्डादि परित्यज्य (यत्) संयमोपकारि तद् गवेषयेत् । अधीतपिण्डैषणादिनैव ह्यानीतानि पण्डादीनि साधूनां कल्पन्ते न चेतराणि । यदुक्तम् दिनचर्यायाम् -
'अणहीआ खलु जेणं, पिंडेसणवत्थसिज्जपाएसा ।
तेणाणिआणि जइणो, कप्पंति न पिंडमाईणि " ॥१॥ [ य. दि. / १८३ ] पिंडादीनीत्यत्रादिशब्दात् शय्यावस्त्रपात्रग्रहः, तथा चार्षम् -
D:\new/d-3.pm5\ 3rd proof
१. चरन्ति गच्छन्ति ये ते उत्क्षिप्तचराः दायकेन पूर्वमेव भाजनादुद्धृतं गवेषयन्तीत्यर्थः, आदिशब्दान्निक्षिप्तचरका संस्थादन्निका इष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते, त एते गुणगुणिनोः कथञ्चिदभेदात् भावयुक्ताः - P. ॥ २. 'लंकिओ वय इरोऽवि - इति पञ्चवस्तुके ॥ ३. भावनान्यतरेण इति पञ्चवस्तुकवृत्तौ ॥ ४. सुज्झंति - इति पञ्चवस्तुके, शुध्यन्ति - इति तत्रवृत्तौ ॥