________________
५२४]
[धर्मसंग्रह:-तृतीयोऽधिकारः ___ अथवा समीपस्थग्रामे हिण्डते, तत्रायं विधि:-ग्रामबहि: स्थित्वा भिक्षावेलां कञ्चन पृच्छति, ततः पूर्णवेलायां सत्यां तदैव पादप्रमार्जनपात्रद्वयप्रत्युपेक्षणप्रमार्जनपूर्वं ग्रामे प्रविशति, अपूर्णायां तु तस्यां तां प्रतीक्ष्य प्रविशति, प्रविशंश्च श्रमणाद्यन्यतरपृच्छया तत्र श्रमणान् ज्ञात्वा गत्वा च पूर्वं तदुपाश्रये ते चेदेकसामाचारीकास्तदा तान् गुरुवन्दनेन वन्दते, भिन्नसामाचारीकांस्तु बहिरुपकरणं स्थापयित्वा मध्ये प्रविश्य वन्दते, संविग्नपाक्षिकांश्च बहिर्व्यवस्थित एव वन्दित्वाऽबाधां पृच्छति, खग्गूडप्रायांस्तांस्तु छोभवन्दनं करोति, ततस्तेषु ग्लानाद्यबाधां पृष्ट्वा उक्त्वा च स्वीयागमनहेतुं स्थापनाकुलानि यतनया पृच्छति, तेऽपि तथा वदन्ति, पृच्छायां यतना चाङ्गल्या अदर्शनादिरूपा, ततः स्थापनाकुलानि प्रतिकुष्टानि च न प्रविशेत् । यतः -
"ठवणा मिलक्खु निंदुं , अचिअत्तघरं तहेव पडिकुटुं।
एअं गणधरमेरं, अइक्कमंतो विराहेज्जा" ॥१॥[ओघ.नि./४४० ] इति । प्रतिकुष्टमिति –छिम्पकादिकुलं, तत्र प्रविशतश्च महादोषः । यतः -
"छक्कायदयावंतोऽवि, संजओ कुणइ दुल्लहं बोहिं।
आहारे नीहारे, दुगुंछिए पिंडगहणे अ" ॥१॥ [ओघ.नि./४४१] इति । एवं च भिक्षार्थमटतो मोक्षमेव फलम् , विहितानुष्ठानत्वाद् भिक्षाटनस्य । यदुक्तं पञ्चवस्तुके -
"हिंडंति तओ पच्छा, अमुच्छिआ एसणाए उवउत्ता।
दव्वाइअभिग्गहजुआ मोक्खट्ठा सव्वभावेणं" ॥१॥[प.व./२९७ ] अभिग्रह:-साध्वाचारविशेषः, स च द्रव्यादिविषयभेदाच्चतुर्विधः, तत्रामुकं द्रव्यममुकेन वा द्रव्येण दीयमानं ग्रहीष्यामीत्यादिरूपो द्रव्याभिग्रह: १। अष्टौ गोचरभूमयो गृहादिसङ्ख्याकरणं वा क्षेत्राभिग्रह: २। अतिक्रान्तादौ भिक्षाकालेऽटनं कालाभिग्रह: ३। उत्क्षिप्तचरादयश्च भावाभिग्रहाः ४। तदुक्तं पञ्चवस्तुके -
"लेवडमलेवडं वा, अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण व दव्वेणं, अह दव्वाभिग्गहो णाम" ॥१॥[ प.व./२९८ ]
१. नेहूं-इति ओघनिर्युक्तौ ॥ २. दुल्लहं कुणइ-इति ओघनिर्युक्तौ ।।
D:\new/d-3.pm53rd proof