________________
अष्टौ गोचरभूमय:- श्लो० ९३॥]
[५२५ लेपवत् जगर्यादि तन्मिश्रं वा अलेपकृद्वा तद्विपरीतम् , अमुकं द्रव्यं वा मण्डकादि, अमुकेन द्रव्येण दादिनेति ।
"अट्ठ य गोअरभूमी, एलुगविक्खंभमित्तगहणं च ।
सग्गामपरग्गामे, एवइअघरा य खेत्तंमी" ॥२॥ [ प.व./२९९] गोचरभूमयो -भिक्षाचर्यावीथयो भिक्षाचर्याविषया मार्गविशेषा इत्यर्थस्ता अष्टौ वक्ष्यमाणलक्षणाः । तथा एलुगविष्कम्भमात्रग्रहणं च, यथोक्तं –“एलुगं विक्खंभइत्ता" [ ] तथा स्वग्रामपरग्रामयोरेतावन्ति गृहाणि 'क्षेत्रे' क्षेत्रविषयः । गोचरभूमयश्चेमा: -
"उज्जुग गंतुंपच्छा( च्चा )गई अ गोमुत्तिआ पयंगविही ।
पेडा य अद्धपेडा, अभितरबाहिसंबुक्का" ॥१॥[प.व./३००] ऋज्वी १ गत्वाप्रत्यागतिः २ गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहि:शम्बूका ८ चेति, तत्र ऋज्वी-स्ववसते ऋजुमार्गेण समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षाग्रहणेन पङ्क्तिसमापने ततो द्वितीयपङ्क्तावपर्याप्तेऽपि भिक्षाऽग्रहणेन ऋजुगत्यैव निवर्त्तने च भवति १। गत्वाप्रत्यागतिस्तु एकपङ्क्तौ गच्छतो द्वितीयपङ्क्तौ च प्रत्यावर्त्तमानस्य भिक्षणे २। गोमूत्रिका च परस्पराभिमुखगृहपङ्क्तयोर्वामपङ्क्त्येकगृहे गत्वा दक्षिणपङ्क्त्येकगृहे यातीत्येवं क्रमेण श्रेणिद्वयसमाप्तिकरणे भवति ३। पतङ्गवीथिश्चानियतक्रमा ४। पेटा च पेटाकारं चतुरस्र क्षेत्रं विभज्य मध्यवर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षणे भवति ५। अर्द्धपेटा च-प्राग्वत् क्षेत्रं विभज्य दिग्द्वयसम्बन्धिगृहश्रेण्योभिक्षणे ६ अन्तःशम्बूका च-मध्यभागात् शङ्खावर्तगत्या भिक्षमाणस्य बहिनि:सरणे भवति ७ बहि:शम्बूका तु बहिर्भागात् तथैव भिक्षामटतो मध्यभागागमने भवतीति ।
१. लेपकृत्-मु०॥ २. तन्मिश्रं वज्रलेपवद्वा (च अलेपकृद्वा) तद्वि मु०॥ ३. इतोऽग्रे P. प्रतौ "एलक-उदम्बरस्तस्य विष्कम्भ-आक्रमणं तन्मात्रे मया ग्रहणं कर्तव्यमिति" इत्यधिकः पाठः दृश्यते, पञ्चाशकवृत्तौ C. प्रतौ न दृश्यते ॥ ४. इतोऽग्रे-"प्रवेष्टव्यानीति' P. प्रतौ अधिकम् । C. प्रतौ पञ्चवस्तुकवृत्तौ नास्ति । ५. धि:-पञ्चवस्तुकवृत्तौ ॥ ६. तुला-स्थानाङ्गसूत्रवृत्तिः सूत्र ५१४, प० ३६६ । प्रवचनसारोद्धारवृत्तिः द्वार ९७ ।। ७. प्राग्वत् क्षेत्रं विभज्य-मु० C. नास्ति, P. प्रतौ पार्श्वभागे वर्तते ॥
D:\new/d-3.pm5\3rd proof