________________
भिक्षाविधिः -श्लो० ९३॥]
[५२३ आचार्यग्लानक्षपकप्राघूर्णकादीनामर्थाय बहुशोऽपि प्रविशतीतिरूप: १। तथा ग्लानक्षपकपारणार्थं अतिप्रत्युषसि अतिक्रान्तायामपि भिक्षावेलायां च प्रविशति बहुश इति द्वितीये यतना २। तथाऽनाभोगेन कायिकादिव्युत्सर्गमकृत्वा गतः आसन्ने जाततच्छङ्कः प्रत्यावर्त्तते दूरे गतस्तु भाजनान्यन्यस्मै दत्त्वा कायिकादि व्युत्सृजति । असहिष्णुस्तु आसन्नायामेकसामाचारीकवसतौ तदभावे भिन्नसामाचारीकवसतौ तदभावेऽवमग्नवसतौ तदभावे च श्राद्धगृहे तस्याप्यभावे शल्यनिरूपणेन दत्तानुज्ञानस्य वैद्यस्य गृहपृष्ठौ तस्याप्यभावे राजपथे गृहद्वयान्तरालरथ्यायां वा गृहिसत्कावग्रहेऽपि वा, तत्र च कायिकां न व्युत्सृजति, किन्तु पुरीषं, राजकुले व्यवहारे जायमाने तदद्धरणेन समाधानस्य कर्तुं शक्यत्वादिति तृतीये यतना ३। तथाऽवमरात्निको लब्ध्या गर्वितः सन्नेकाकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति यदुत तवैवानुग्रहोऽयं यत् त्वदीयलब्धेरुपष्टम्भेन यतयः स्वाध्यायादि कुर्वन्ति, इत्येवं कायिकमायाव्यलसलुब्धनिर्धर्माणां प्रज्ञापना कर्त्तव्या । यत्र च पर्यटतां एकैव भिक्षा द्वयोरपि लभ्यते न च काल: पर्याप्यते इति भिक्षादौर्लभ्ये एकाकिन एव हिण्डन्ते । अथ च सर्व एव खग्गूडा आत्मलब्धिका भवितुमिच्छन्ति तदाऽऽचार्यस्तान्निषिध्य प्रियधर्मा आत्मलब्धिको भवति तस्यानुजानाति ततश्चैवमेकाकी भवति। [यः पुनरमनोज्ञः स मनोज्ञैरन्यैः साधुभिः समं संयोज्य प्रेष्यते । यदि सर्वेऽपि नेच्छन्ति ततः परित्यजनीयः, अथ स एवैक: कलहकरणलक्षणस्तस्य दोषः, अपरे निर्लोभत्वादयो बहवो गुणाः एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्यः, इति । तत्र च स्त्रिया उपद्रवे धर्मकथया प्रबोध्य मायया वा वञ्चयित्वापि प्रणश्यति, तथापि प्रनंष्टुमशक्तो नियत एवेति । एवं श्वाद्युपद्रवेष्वपि यथासम्भवं भाव्यमिति तुर्ये यतना ४। उपकरणे यतना तूक्तैव ५। तथा ग्लानाद्यर्थं त्वरितं गतोऽनाभोगेन वा तदा मात्रकाग्रहणम् , अथवा तल्लिप्तं भवति तदेति षष्ठे यतना ६। एवमुपयोगकायोत्सर्गेऽनाभोगादिना यतना ७। यस्य योग इति तु कर्त्तव्य एवान्यथा स्तैन्यमेवेति ८।
अथैनं प्रागुक्तविधि सत्यापयित्वा श्रीगौतमनामस्मरणपूर्वं प्रवहनाडिपादं प्रथममुत्पाट्य दण्डाग्रं भूमावलगयन् भिक्षार्थं स्वग्रामे हिण्डते । यदुक्तं दिनचर्यायाम् -
"आवस्सिअं भणित्ता, गुरुणा भणिअंमि भवह उवउत्ता। सिरिगोअमं सरित्ता, सणिअं उक्खिविअ तो दंडं ॥१॥[ य.दि./१७५ ] वायवहनाडिपायं, पढम उप्पाडिऊण वच्चिज्जा। धरणिअलग्गं दंडं, धरिज्ज जा लब्भए भिक्खा " ॥२॥ य.दि./१७६]
D:\new/d-3.pm53rd proof