________________
५२२]
[धर्मसंग्रह:-तृतीयोऽधिकारः व्याख्या -गारविको -लब्धिसंपन्नोऽहमित्येवंगर्वोपेतः, अत्र चेयं भावना-संघाटके रत्नाधिकोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नस्ततोऽसौ अग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते -ज्येष्ठार्य ! मुञ्च प्रतिग्रहम् , ततोऽवमरत्नाधिक: स्वलब्धिगर्वितश्चिन्तयति –यन्मया स्वलब्धिसामर्थ्येनेदं भक्तादिकमुत्पादितम् , इदानीमस्य रत्नाधिकः प्रभुरभूत् , येनास्य पार्श्वे प्रतिग्रहो याच्यते इति कषायितः सन्नेकाकीभवति । काथिक:-कथाकथनैकनिष्ठः, स च द्वितीयेन वार्यमाण एकाकीभवति । मायावान् भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी स्यात् । अलसश्चिरगोचरचर्याभ्रमणभग्नः । लुब्धस्तु दध्यादिविकृतीरवभाषमाणः पृथगेवाटति । निर्धर्मा पुनरनेषयन् जिघृक्षुः । 'दुल्लह'त्ति दुर्लभभैक्षे काले एकाकित्वमुपसम्पद्यते । आत्मार्थिकः -आत्मलब्धिकः स स्वलब्धिसामर्थ्येनैवोत्पादितमहं गृह्णामीत्येकाकीभवति। अमनोज्ञ: - सर्वेषामप्यनिष्टः कलहकारकत्वात् असावप्येकाकी पर्यटतीति, एषां च सर्वेषामेकाकित्वप्रत्ययं प्रायश्चित्तमिति] ४। ___'उवगरण'त्ति भिक्षामटता किं सर्वमुपकरणं ग्राह्यमाहोस्वित् स्वल्पमिति?, तत्रोत्सर्गतः सर्वमुपकरणादाय भिक्षागवेषणं कर्त्तव्यम् , तथाऽशक्तेन तु आचारभाण्डकम् , तच्च पात्रं पटलानि रजोहरणं दण्डक: और्णः क्षौमिकश्चेति कल्पद्वयं मात्रकं चेति ५। 'मत्तय'त्ति भिक्षार्थमटता मात्रकग्रहणं कर्त्तव्यम् , न च संसक्तादिकार्यमन्तरा तत्परिभोगः, तथाविधे कार्यजात एव हि मात्र[क] ग्रहणमनुज्ञातम् । यतः -
"आयरिश्रमि गिलाणे, पाहुणए दुल्लहे सहसलाभे।।
संसत्तभत्तपाणे, मत्तगगहणं अणुण्णायं" ॥१॥[ओघ.नि./४२६] 'दुल्लह'त्ति घृतादि दुर्लभं किञ्चिल्लभ्यते तदर्थम् , 'सहसलाभे'त्ति सहसा -अकस्मात् किञ्चित् प्रचुरं लभ्यते ततोऽसंस्तरतां प्रव्रजितानामात्मानं कृच्छ्रेण यापयतामनुग्रह: स्यादित्येदर्थम् ६। काउस्सग्ग त्ति –उपयोगकायोत्सर्ग: *कार्यः, किं ममाद्यप्रत्याख्यानमित्यादिचिन्तनारूप:* ७। यस्य योग इत्यस्य च भिक्षार्थं गच्छता कथनम् ८। 'सपडिवक्खो'त्ति स एवायं द्वारकलापः सप्रतिपक्षः -सापवादो वक्तव्यः । तत्राद्येऽपवाद
१. येत् मया इति बृहत्कल्पवृत्तौ ।। २. भाष्य' इति बृहत्कल्पवृत्तौ ।। ३. भभिक्षे मु० ॥ ४. P.C. बृहत्कल्पवृत्तौ । स्वस्व मु० ॥ ५. “यापयतां कुत्रचित् स्याद् ग्रहणरिति" इति ओघनियुक्तिवृत्तौ प० १५४ A ॥ ६. * * चिह्नद्वयमध्यवर्ती पाठ: मु० नास्ति C. ||
D:\new/d-3.pm5\3rd proof