________________
भिक्षाविधिः - श्लो० ९३ ॥ ]
[ ५२१
सचित्तं – प्रव्रज्यार्थमुपस्थितं गृहस्थं नाप्यचित्तं - वस्त्रपात्रादि । अथ यदि गृहाति ततः स्तैन्यं भवति, तस्मात् कुरु यस्य योगमिति । एवं चोपयोगकरणे चत्वारि स्थानानि, तदुक्तम्
-
44
'आपुच्छण त्ति पढमा, बिइआ पडिपुच्छणा य कायव्वा ।
आवस्सिआ य तइआ, जस्स य जोगो चउत्थो उ" ॥१॥ [ ओ.नि./ २२८ ] अत्र चेदमवधेयम् – एषणा त्रिविधा - गवेषणैषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्, तत्र गवेषणा - भक्तादेर्ग्रहणार्थं विलोकना, तत्काले तद्विषया वा एषणा - उद्गमादिदोषविचारणा गवेषणैषणा १ । ग्रहणं - भक्तादेरादानम्, तत्काले तद्विषया वा एषणा ग्रहणैषणा २। ग्रासो - भोजनम्, तत्काले तद्विषया वा एषणा ग्रासैषणा ३। तत्रायं कायिकीकरणादिः सकलोऽपि विधिर्गवैषणैषणासम्बन्धी ज्ञेयः । सा ओघनिर्युक्ता - वष्टभिर्द्वारैर्विचारिता । तानि चामूनि -
“पमाणे १ काले २ आवस्सए अ ३, संघाडए ४ अ उवगरणे ५ ।
मत्तय ६ काउस्सग्गो ७, जस्स य जोगो ८ सपडिवक्खो " ॥१॥ [ ओ.नि./ ४११ ] 'पमाणं'ति प्रमाणं कतिवारा भिक्षार्थं प्रवेष्टव्यमिति कथनलक्षणम्, उत्तरं तु वारद्वयं प्रवेष्टव्यम् । एकमकालसंज्ञायाः पानकनिमित्तं द्वितीयं भिक्षार्थं गमनमिति तद्भाष्यगतो निर्णयो द्वारगाथासम्बन्ध एव लिखितः । एवमग्रेऽपि नेयम् १। 'काले 'त्ति कस्मिन् काले भिक्षा गवेषणीया ?, तत्र भिक्षाकाले प्रथमपौरुष्यर्द्धे चेति २ [कल्पवृत्तौ त्वेवमुक्तम् –“ क्षपको बालको वृद्धो वा पर्युषितेन प्रथमालिकां कर्त्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति, अथ तावतीं वेलां न प्रतिपालयितुं क्षमस्ततोऽर्द्धपौरुष्यां निर्गच्छति, यद्यतिप्रभाते पर्यटति तदा मासलघु भद्रकप्रान्तकृताश्च दोषा भवन्ति " [प० ५०० ] इति] ‘आवस्सए’त्ति आवश्यकः - कायिकादिव्युत्सर्गरूपस्तं कृत्वा भिक्षार्थं याति अन्यथा मार्गे कुर्वत उड्डाहः ३ । 'संघाडग' त्ति - ससंघाटकेन हिण्डनीयम्, न त्वेकाकिना तथा सति स्त्र्यादिकृता दोषाः स्पष्टा एव । [ एकाकित्वभवनकारणानि तु बृहत्कल्पे एवमुक्तानि । तथाहि -
-
"गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे ।
दुल्लह अत्ताहिट्ठिअ, अमणुन्ने या असंघाडो " ॥१॥[बृ.क./१७०३ ]
१. पमाणे-इति ओघनिर्युक्तौ ॥
D:\new/d-3.pm5\3rd proof