________________
५२०]
[धर्मसंग्रह:-तृतीयोऽधिकारः सुगमा, परं 'मङ्गलयं'ति पञ्चमङ्गलं नमस्कार कायोत्सर्गे चिन्तयन्ति । अत्र पक्षद्वयमाह
"तप्पुव्वयं जयत्थं, अन्ने उ भणंति धम्मजोगमिणं ।
गुरुबालवुड्डसिक्खगएसेमि ण अप्पणो चेव" ॥३॥ [ प.व./२९०] तत्पूर्वकं -नमस्कारपूर्वकं यदर्थं तच्च चिन्तयन्ति सम्यगनालोचितस्य ग्रहणप्रतिषेधात् यस्माद् यावन्नालोचितं हृदि तावन्न किञ्चिद् ग्राह्यम् , अन्ये आचार्या इत्थं भणन्ति -धर्मयोगमेनं चिन्तयन्तीति । किंविशिष्टम् ?-गुरुबालवृद्धशैक्षकैरेषे एतदर्थं न आत्मन एवार्थम् ॥३॥ ततः किम् ? इत्याह -
"चिंतेउ तओ पच्छा, मंगलपुव्वं भणंति विणयणया।
संदिसहत्ति गुरूविअ, लाभोत्ति भणइ उवउत्तो" ॥४॥[प.व./२९१] चिन्तयित्वा च पश्चात् 'मङ्गलपुव्वं'ति 'नमो अरिहंताणं'ति भणनपूर्वं विनयनता भणन्ति, किम् ? इत्याह -संदिशतेति, यूयमनुजानीतेत्यर्थः । गुरुरपि भणति –'लाभो'त्ति कालोचितानुकूलानपायित्वात् , उपयुक्तो -निमित्तेष्वसम्भ्रान्तः ४। ततः किम्? इत्याह -
"कह घेत्थमो त्ति पच्छा, सविसेसणया भणंति ते सम्म ।
आह गुरूवि तहत्ति, जह गहिअं पुव्वसाहूहि" ॥५॥[प.व./२९२] ततः कथं गृहीष्यामः? एवं पश्चात् सविशेषनतास्ते साधवः सम्यग् भणन्ति, ततो गुरुरप्याह –यथागृहीतं पूर्वसाधुभिरित्यनेन गुरोरसाधुप्रायोग्यभणनप्रतिषेधमाह -
"आवस्सिआए जस्स य, जोगु त्ति भणित्तु ते उ णिग्गंति ।
णिक्कारणे ण कप्पइ, साहूणं वसहिणिग्गमणं" ॥६॥ [प.व./२९३] आवश्यिक्या -साधुक्रियाभिधायिन्या हेतुभूतया 'जस्स यजोगु त्ति' भणित्वा निर्गच्छन्ति वसतेः । तस्यार्थस्त्वेवम् –यस्य वस्तुनो वस्त्रपात्रशैक्षादेर्योगः -संयमोपकारकः सम्बन्धो भविष्यति, तंग्रहिष्यामीत्यर्थः, किमेतद्? इत्याह -निष्कारणेन कल्पते साधूनां वसतिनिर्गमनम् , तत्र दोषसम्भवादिति । तस्य योग इत्यस्याकरणे च दोषः । यदुक्तमोघनिर्युक्तौ -
"जस्स य जोगमकाऊण, निग्गओ न लभेज्ज सच्चित्तं ।
न य वत्थपायमाई, तेणं गहणे कुणसु तम्हा" ॥१॥[ओ.नि./४२८] यस्य योगमित्येवमकृत्वा -अभणित्वा निर्गतः सन्न लभते -नाभाव्यतया प्राप्नोति,
१. रेसिंमि-इति पञ्चवस्तुके ।। २. °क्षकरेषे-इति पञ्चवस्तुकवृत्तौ ॥ ३. चिंतित्तु-इति पञ्चवस्तुके ।। ४. तओ णिति-इति पञ्चवस्तुके ।। ५. येन P.C. ||
D:\new/d-3.pm5\3rd proof