________________
भिक्षाविधिः -श्लो० ९३॥]
[५१९ प्रव्रज्याप्रतिपन्नो यस्तद्विरोधेन वर्त्तते । असदारम्भिणस्तस्य, पौरुषघ्नी प्रकीर्तिता ॥३॥ [हारि.अ.५/४] निःस्वान्धपङ्गवो ये तु , न शक्ता वै क्रियान्तरे।
भिक्षामटन्ति वृत्त्यर्थं, वृत्तिभिक्षेयमुच्यते" ॥४॥ [ हारि.अ.५/५] इति । ततोऽत्र निर्दोषेतिविशेषणात् सर्वसम्पत्करी भिक्षा ग्राह्या । तदर्थाटने क्रमश्चैवं - भिक्षासमये प्राप्ते कृतकायिकादिव्यापारः साधुः क्षमाश्रमणपूर्वं मुखवस्त्रिका प्रतिलिख्य पुन क्षमाश्रमणपूर्वं भगवन् ! पात्राणि स्थाने स्थापयामीत्युक्त्वा तानि च प्रतिलिख्य प्रमाय॑ च पटलयुक्तान्युद्ग्राह्य च वामकरधृतदण्डको गुरुपुरतश्च स्थित्वोपयोगं करोति, साम्प्रतीनसामाचार्यां तु बालाद्यनुग्रहार्थं प्रभातसमय एवोपयोगः क्रियते । यदुक्तं दिनचर्यायाम् -
"पत्ते भिक्खासमए, पणमिअ पडिलेहीऊण मुहपुत्तिं । नमिऊण भणइ भयवं !, ठाणे ठावेमि पत्ताणि ॥१॥ [ य.दि./१७२ ] पडिलेहिअ सुपमज्जिअ, तत्तो पत्ताणि पडलजुत्ताणि । उग्गाहिअ गुरुपुरओ, उवओगं कुणइ उवउत्तो ॥२॥ [ य.दि./१७३] संपइ सामायारी, दीसइ एसा पभायसमयंमि ।
जं किज्जइ उवओगो, बालाइअणुग्गहट्ठाए" ॥३॥[ य.दि./१७४] पञ्चवस्तुकेऽपि - "काइअमाइअजोगं, काउं घेत्तूण पत्तए ताहे।
दंडं च संजयं, तो गुरुपुरओ ठवित्तु उवउत्तो" ॥१॥[ प.व./२८७] उपयोगकरणविधिस्त्वेवं तत्रैव -
"संदिसह भणति गुरुं, उवओग करेमु तेणऽणुण्णाया।
उवओगकरावणिअं, करेमु उस्सग्गमिच्चाइ" ॥१॥ [ प.व./२८८ ] व्याख्या –संदिशतेति गुरुं भणति, किम्? इत्याह –'उपयोगं करेमि'त्ति "इच्छाकारेण संदिसह भगवन् ! उपयोग करूं" इति भणतीत्यर्थः । तत 'उपयोगकरावणिअं करेमि काउस्सग्गं अण्णत्थ' इत्यादि भणति ।
"अह कड्डिऊण सुत्तं, अक्खलिआइगुणसंजुअं पच्छा।
चिट्ठन्ति काउसग्गे, चिंतिति अ तत्थ मंगलयं" ॥२॥ [ प.व./२८९] १. ठवित्तु (गति) उवउत्तो-मु० । ठाउमुवउत्तो-इति पञ्चवस्तुके ।। २. चितंति-पञ्च० ॥
D:\new/d-3.pm5\3rd proof