SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५१८ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः "बिइआए पोरिसीए, पुण्णाए चेइआई वंदिज्जा । खित्तंमि पहुप्पंते, भिक्खायरिआइ कालंमि ॥ १ ॥ [ य. दि. / १६३ ] अह न पहुप्पड़ कालो, भिक्खाए तयणु पोरिसीजुअलं । हाविज्जसु लवमित्तं चेइअजिणनाहनमणत्थं " ॥२॥ [ य.दि./१६४] एतेन यस्मिन् क्षेत्रे यो भिक्षाकालस्तदनुसारेण पौरुषीयुगलं नेयमिति पर्यवसन्नम् । तथा चोक्तम् तत्रैव - - " खित्तंमि जत्थ जो खलु गोअरचरिआइ वट्टए कालो । , तं साहिज्जसु पोरिसीजुअलं पुण तयणुसारेणं" ॥३॥[ य.दि./१७१ ] इति । भिक्षाकालश्चोत्सर्गतस्तृतीयपौरुषी, मासकल्पपर्यन्तदिने विहारकालोऽप्युत्सर्गतः सैव । यदुक्तम् तत्रैव - - 44 'तइआइ पोरिसीए, पज्जत्तदिणंमि मासकप्पस्स । विहिणा कुणसु विहारं, दूरंमि उ बिइ अपढमासु" ॥१॥ [ य. दि. / १७० ] इति । चैत्यानि चाष्टमीचतुर्दश्योः सर्वाणि वन्दनीयानि, शेषदिनेषु त्वेकमेव । यतस्तत्रैव - "अट्ठमिचउद्दसीसुं, सव्वाणि वि चेइआइ वंदिज्जा । सव्वे वि तहा मुणिणो, सेसदिणे चेइअं इक्कं" ॥१॥[ य.दि./१६५ ] इति । तद्भेदास्तद्विधिश्च प्रागुक्त एवेति नात्र प्रपञ्चितः ॥९२॥ इदानीं तृतीयपौरुषीविषयं यत् कर्त्तव्यं तदाह – कृत्वोपयोगं निर्दोषभिक्षार्थमटनं तदा । आगत्यालोचनं चैत्यवन्दनादिविधिस्ततः ॥९३॥ ‘तदा’ तस्मिन् काले भिक्षाकाले इत्यर्थः ‘उपयोगं' कालोचितप्रशस्तव्यापारं 'कृत्वा' विधाय निर्दोषा - गवेषणैषणादिदोषरहिता, सर्वसम्पत्करीत्यर्थः, या भिक्षा-भिक्षणं तदर्थं तत्प्रयोजनाय अटनं – गमनं सापेक्षयतिधर्मो भवतीति क्रियान्वयः । अत्रायं भावः भिक्षा त्रिधा - सर्वसंपत्करी पौरुषघ्नी वृत्तिकरी चेति । तल्लक्षणं चेदम् – "यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥१॥ [ हारि.अ.५/२] वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेतिशुभाशयात् ॥२॥ [ हारि. अ. ५/३] D:\new/d-3.pm5\3rd proof - —
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy