SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पात्रप्रतिलेखनाविधि : - श्लो० ९२ ॥ ] [ ५१५ प्रत्युपेक्षणीयम्, भूमिपतनभयान्नाधिकमिति । अत्र च पात्रप्रत्युपेक्षणा अपि पञ्चविंशतिरुक्ता भवन्तीति हार्द्दम् । यतिदिनचर्यायामप्युक्तम् - "बारस बाहिं ठाणा, बारस ठाणा य हुंति मज्झमि । पत्तपडिलेहणाए, पणवीसइमो करप्फासो" ॥१॥ [ य.दि./१४२ ] इति । एवं तावत् प्रत्यूषसि वस्त्रपात्रप्रत्युपेक्षणोक्ता, इदानीमुपधि पात्रकं च प्रत्युपेक्ष्य किमुपधेः कर्त्तव्यं ?, क्व वा पात्रकं स्थापनीयम् ? इत्याह“विं( वें )टिअबंधणधरणे, अगणी तेणे य दंडिअक्खोभे । उउबद्धधरणबंधण, वासासु अबंधणा ठवणा" ॥१॥ [ ओघ. नि. २९५, पञ्च.२८२ ] उपधेर्विण्टिकाबन्धनं कर्त्तव्यम्, 'धरणे 'त्ति रजस्त्राणस्य पात्रकस्य चात्मसमीपे धरणं कार्यम्, अनिक्षिप्तमित्यर्थः । किमर्थं पुनरेतदेवं क्रियते ? यदुपधिका बध्यते पात्रकमनिक्षिप्तम् क्रियत इति ?, उच्यते, 'अगणी 'त्ति अग्निभयात् स्तेनभयात् दण्डिकक्षोभाच्चैतदेवं क्रियते, दण्डिकाश्च राजानः, कस्मिन् पुनः काले एतदेवं क्रियत इत्याह–‘ऋतुबद्धे' शीतोष्णकालयोः, तत्र पात्रकधरणमुपधेश्च बन्धनं कर्त्तव्यम्, वर्षासु पुनरुपधेरबन्धनं ‘ठेवण’त्ति पात्रकस्थापनं एकदेशे स्थाप्यत इत्यर्थः । व्याख्यां भाष्यकृदेवाह - "रयत्ताण भाणधरणा, उउबद्धे निक्खिवेज्ज वासासु । अगणीतेणभएण व, रायक्खोभे विराहणया" ॥१॥ [ ओघ.नि. भा. १७५, पञ्च. २८३ ] रजस्त्राणस्य भाजनस्य च धरणम्, अनिक्षेपणं ऋतुबद्धे कार्यम्, वर्षासु पुनर्निक्षिपेदेकान्ते, अधरणे दोषानाह - अग्निस्तेनभयेन राजक्षोभे वा मा भूदाकुलस्य गृह्णतः पलिमन्थेन सँयमात्मविराधना । "परिगलमाणो हीरिज्ज, डहणं भेओ तहेव छक्काया । गुत्तो (मूढो ) व सयं डज्झे, हीरिज्ज व जं च तेण विणा " ॥१॥ [ओ.नि.भा. १७६, पञ्च. २८४ ] अग्न्यादिक्षोभे निर्गच्छत आकुलस्य उपधिरबद्धो हि परिगलति, परिगलमानश्च केनचिदपह्रियते दह्येत वाऽबद्धः सन् यावद् गृह्यते, भेदो विनाशो वा आकुलस्य १. ‘“ठवण त्ति पात्रकं च निक्षिप्यते - एकदेशे स्थाप्यते" इति ओघनिर्युक्तिवृत्तौ । 'स्थापना च पात्रस्य, अन्ये त्वाहुः ठवणा य पुण मत्तयस्सेति" इति पञ्चवस्तुकवृत्तौ ॥ २. `णं - पञ्चवस्तुके ।। ३. अधारणे-इति पञ्चवस्तुकवृत्तौ ॥ ४. 'णा - ओघनिर्युक्तिभाष्ये ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy