________________
५१४]
[धर्मसंग्रह:-तृतीयोऽधिकारः गम्भीरात् तेन रजसा पात्रकं गुण्ड्यते, तथा स्निग्धायां -सार्द्रायां सलिलबिन्दव उन्मृद्य लगन्ति ततो भुव उन्मृद्य पात्रस्थापनकं भित्त्वा प्रविशेत् –स लग्नो भवेत् , ऊर्ध्वगामी उदकबिन्दुहरतनुरुच्यते, तद्यतनां वक्ष्यति, अत्र च घनसन्तानद्वारमुल्लद्ध्यैकेन्द्रियसाम्यादुदकद्वारमुक्तम् ।
"कोत्थलगारिअघरगं, घणसंताणाइआ व लग्गेज्जा।
उक्केरंसट्ठाणे, हरतणु संचिट्ठजा सुक्को" ॥१॥[ओघ.नि.२९२, पञ्च.२७४ ] कोत्थलकारिका गृहकं मृन्मयं करोति, तत्र यतनां वक्ष्यति, घनसन्तानादिका वा कदाचिल्लगन्ति, आदिशब्दाद् दण्डकादिः । अथैषां सर्वेषां यतनामाह -उत्केर: स्वस्थाने मुच्यते, यतनया मुषिकोत्केरमध्य एव स्थाप्यते, हरतनवश्च यावत् शुष्यन्ति तावत् प्रतीक्षते, ततः पश्चात् पात्रं प्रत्युपेक्षते ।
"इतरेसु पोरिसितिगं, संचिक्खावित्तु तत्तिअं छिंदे ।
सव्वं वा वि विगिचे, पोराणगमट्टिअं ताहे" ॥१॥[ओघ.नि. २९३ ] इतरेषु-कोत्थलकारिकाघनसन्तानादिषु पौरुषीत्रयं यावत् पात्रकं 'संचिक्खावेत्तुं' संस्थाप्य यदि तावत्या अपि वेलया नापैति ततः पात्रस्थापनादेस्तावन्मानं छित्त्वा परित्यज्यते अन्याभावे सति कार्ये च, अथान्यपात्रस्थापनादीनां सद्भावे सर्वमेतत्पात्रकस्थापनादि विगिञ्चेत् - परित्यजति, 'पोराणगमट्टिअंति अथ कोत्थलकारिकागृहं न सचेतनया मृत्तिकया कृतं, किन्तु पुराणया, ततस्तां पुराणमृत्तिकां 'ताहे'त्ति तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति ।
"पत्तं पमज्जिऊणं, अंतो बाहिं सयं तु पप्फोडे।
केइ पुण तिन्नि वारा, चउरंगुल भूमि पडणभया" ॥१॥[ओघ.नि.२९४] तत्पात्रं पात्रकेसरिकया तिस्रो वाराः प्रमृज्य सम्पूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समस्तं प्रमृज्य ततः 'सयं'ति सकृत् अधोमुखं कृत्वा बुध्नं प्रस्फोटयेत् । केचित् पुनरेवमाहुः -तिस्रो वारा: प्रस्फोटनीयम् , प्रतिप्रमार्जनान्ते इत्यर्थः । तत्पात्रकं भुव उपरि कियद्रे प्रत्युपेक्षणीयम् ? इत्याह -चतुरङ्गलैर्भुव उपरि धारयित्वा
१. उन्मज्ज्य....उन्मज्जय....इति ओघनिवृत्तौ ।। २. तुला-पञ्चवस्तुटीका || ३. चिटेज्जपञ्चवस्तुके ॥ ४. प्रत्युपेक्ष्यते-ओघनि०वृत्तौ ॥ ५. नापयाति-इति ओघनि०वृत्तौ ॥ ६. तुलापञ्चवस्तुके गा० २७६ ।। ७. "अधोमुखां कृत्वा बुध्ने प्रस्फोटयेत, एवं केचिदाचार्या ब्रुवते" इति ओघनिवृत्तौ प० ११८ B| "अम्हं पुण एगवारं पप्फोडिज्जइ-इति पञ्चवस्तुकवृत्तौ ४७ A ||
D:\new/d-3.pm53rd proof