________________
पात्रप्रतिलेखनाविधिः -श्लो० ९२॥]
[५१३ आचार्य आह -तदेतन्न भवति यच्चोदकेनोक्तम् , यतः पलिमन्थः सूत्रार्थर्योर्भवति, कथं ? प्रथममसौ पादप्रोञ्छने निषीदति, पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायामुत्कुटुको भवति, पुनः पात्रप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोश्चिरयतः सूत्रार्थयोः पलिमन्थो भवति यतः अतः पादप्रोञ्छने निषण्णेनैव पात्रवस्त्रप्रत्युपेक्षणा कर्त्तव्येति । ताश्च प्रत्येकं पञ्चविंशतिर्जेयाः । यतो दिनचर्यायाम् -
"मुहवत्थे तह देहे, गुच्छे पडलाइएसु पत्तेअं।
पणवीसा पणवीसा, ठाणा भणिआ जिणिंदेहिं"॥१॥[ य.दि./१३८ ] इति । ततः किं करोतीत्याह -
"चउकोणभाणकण्णं पमज्ज पाएसरिय तिगुणं तु ।
भाणस्स पुष्फयं तो, इमेहिं कज्जेहिं पडिलेहे"॥१॥[ओघ.२८९, पञ्च.२७१] पटलानि प्रत्युपेक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गल्या गृह्णाति, ततः पात्रकेसरिकां - पात्रमुखवस्त्रिकां पात्रकस्थामेव गृह्णाति, तया चतुरः पात्रबन्धकोणान् संवोपरिस्थापितान् प्रमार्जयति, तदनु पात्रकेसरिकया भाजनस्य कर्णं प्रमार्जयति, ततः तिगुणं ति -तिस्रो वारा बाह्यतोऽभ्यन्तरतश्च प्रमार्जयति, ततो भाजनस्य पुष्पं-बुध्नं नाभिप्रदेशमित्यर्थः, 'तो' तत एतानि वक्षमाणलक्षणानि कार्याणि भवन्ति ततः बुध्नं पात्रकस्य प्रत्युपेक्षत इति । तान्येव कारणान्याह
"मूसगरयउक्केरे, घणसंताणए इअ ।
उदए मट्टिआ चेव, एमेआ पडिवत्तिओ" ॥१॥[ओ.नि.२९०, प.व.२७२] कदाचित् तत्र मूषिकोत्केररजो लग्नं भवति, ततस्तद्यतनयाऽपनीयते, तथा घनसन्तानको वा -कोलिकतन्तुको लग्नो भवति, तद्यतनयाऽपनीयते, तथा कदाचिदुदकं लग्नं भवति, मृत्तिका वा सार्दीया भूमेरुन्मृद्य लग्ना भवति, तत्र यतनां वक्ष्यति । एवमेताः प्रतिपत्तयः - प्रकारा भेदा यदि न भवन्ति ततो बुध्नं प्रत्युपेक्षते । उत्केरादिसम्भवे हेतूनाह -
"णवगनिवेसे दूरा, उक्केरो मूसएहिं उक्किण्णो।
निद्धमहिहरतणू वा, ठाणं भेत्तूण पविसेज्जा" ॥१॥[ओ.नि.२९१,प.व.२७३] __ [ग्रं १००००] 'नवकनिवेसे' यत्र ग्रामादौ ते साधव आवासिताः स नवः - अभिनवनिवेश: कदाचिद् भवति, तत्र च पात्रसमीपे मूषकैरुत्केर उत्कीर्णः दूरात् –
१. कोणे' इति पञ्चवस्तुके ॥ २. “तत एभिः कार्यैः-वक्ष्यमाणलक्षणैः प्रत्युपेक्षेत" इति पञ्चवस्तुकवृत्तौ ॥ ३."यदि न भवन्ति" इति ओघनियुक्तिवृत्तौ ॥ ४. प्रत्युपेक्ष्यते-इति ओघनियुक्तिवृत्तौ ॥ ५. अभिनवो निवेश:-इति ओघनिवृत्तौ ।।
D:\new/d-3.pm53rd proof