________________
५१२]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
पाउंछणमुउबद्धे, वासासमयंमि पीढपट्टाइं ।
आसणमिणं जईणं, भूमिफलिआणि सयणंमि ॥१॥ [ य. दि. / १२६ ] पत्तं १ पत्ताबंधो २, पायठवणं च ३ पायकेसरिआ ४ । पडलाइँ ५ रयत्ताणं ६, गुच्छओ ७ पायणिज्जोगो" ॥१॥
[ ओघनिर्युक्ति ६६८, पञ्चवस्तुके ७७२, यतिदिनचर्या १२७] एतद्व्याख्या चोपकरणाधिकारे वक्ष्यते । पात्रप्रत्युपेक्षणाविधिस्त्वेवम् - भाजनस्य पार्श्वोपविष्टः सन् प्रथमं पूर्वोक्तरीत्या मुखवस्त्रिकां प्रतिलिख्य श्रोत्रादिभिरिन्द्रियैरुपयोगं च कृत्वा पात्राणि प्रतिलिखयेदिति । तदुक्तं पञ्चवस्तुके -
44
'भाणस्स पास बेट्टो, पढमं सोआइएहिं काऊण ।
उवओगं तल्लेसो, पच्छा पडिलेहए एयं " ॥ १ ॥ [ प.व./२६९ ] इति । ओघनिर्युक्तावपि -
“उवउंजिऊण पुव्वि, तल्लेसो जड़ करेइ उवओगं ।
सोएण चक्खुणा घाणओ अ जीहाए फासेणं" ॥१॥[प.व./२८७] व्याख्या –उपयुज्य—उपयोगं दत्त्वा, पूर्वमेव यदुत मयाऽस्यां वेलायां पात्राणि प्रत्युपेक्षणीयानीति, पुनस्तल्लेश्य एव - प्रत्युपेक्षणाभिमुख एव यतिः पात्रकसमीपे उपविश्योपयोगं करोति - मतिं व्यापारयति कथं ? - श्रोत्रेन्द्रियेण पात्रे उपयोगं करोति । कदाचित् तत्र भ्रमरादिकं गुञ्जन्तं शृणोति ततस्तं यतनयाऽपनीय तत् पात्रकं प्रत्युपेक्षते । तथा चक्षुषोपयोगं दत्ते । कदाचित्तत्र मुषिकोत्केरादिरजो भवति ततस्तद्यतनयाऽपनयति, तथा घ्राणेन्द्रियेण चोपयोगं दत्ते, कदाचित्तत्र सुरभकादिर्मर्दितो भवति, ततश्च तद्यतनयाऽपनयति । जिह्वया च रसं ज्ञात्वा यदा गन्धपुद्गलैरोष्ठो यदा व्याप्तो भवति तदा जिह्वया रसं जानातीति। स्पर्शनेन्द्रियेण चोपयोगं ददाति, कदाचित् तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्षत इति । कथं ? पुनस्तां करोतीत्याह -
"मुहणंतएण गुच्छं, गोच्छं गहिअंगुलिहिं पडलाइं ।
उक्कुडुओ भाणवत्थे, पलिमंथाईसु तं न भवे ॥२॥[ ओ.नि.२८८,प.व.२७० ] ‘मुहणंतएणं’ति रजोहरणमुखवस्त्रिकया गोच्छं वक्ष्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छमङ्गुलीभिर्गृहीत्वा पटलानि प्रमार्जयति । अत्राह परः–उत्कुटुकः सन् भाजनवस्त्राणि –गोच्छकादीनि प्रत्युपेक्षयेत्, यतो वस्त्रप्रत्युपेक्षणोत्कुटुकेनैव कार्या,
D:\new/d-3.pm5\3rd proof
-
"
१. पायं-मु० । एवं-इति पञ्चवस्तुके ॥ २. गुञ्जन्तं - मु० C. नास्ति । ३. “ ज्ञात्वा यत्र गन्धस्तत्र रसोऽपि गन्धपुद्गलैरोष्ठो” इति ओघनिर्युक्तिवृत्तौ प० ११६ B. ॥ ४. प्रत्युपेक्ष्यन्त - इति ओघनि०वृत्तौ ॥