________________
५१०]
[धर्मसंग्रह:-तृतीयोऽधिकारः आत्महितपरिज्ञा स्वाध्यायाद् भवति, आत्महितमजानानो हि मुह्यति, मूढः सन् ज्ञानावरणीयादि कर्म समादत्ते, कर्मणा च जन्तुरनन्तसंसारं पर्यटति, जानानश्चात्महितं प्राणातिपाताद्यकरणरूपायां परमार्थतोऽहितनिवृत्तौ परार्थकरणादिरूपायां च हितप्रवृत्तौ भवतीत्यात्महितं ज्ञातव्यम् , तच्च स्वाध्यायादेव । तथा भावतः-परमार्थतः संवरः, ज्ञानेन हि हिता अहिताश्च भावा यथास्थानमुपयोगिनो ज्ञायन्ते, तत् ज्ञानतश्च भावेन संवरो भवत्येव । नवनवसंवेगश्च स्वाध्यायाद् भवति, यतो हि यथा यथाऽतिशयरसप्रेसरससमन्वितं प्रत्यहमपूर्वं श्रुतमवगाहते तथा तथा शुभभावशैत्येन मुनिर्नवनवसंवेगश्रद्धावान् जायत इति । तथा निष्कम्पता मार्गे स्वाध्यायाद् भवति । अयं चोत्कृष्टं तपः । यतः - "बारसविहंमि वि तवे, सब्भिन्तरबाहिरे कुसलदिढे ।
ण वि अत्थि णवि य होहिहि, सज्झायसमंतवोकम्मं" ॥१॥[प.व./५६२ ] इति। अत एव स्वाध्यायादुत्कृष्टा निर्जरापि भवति । यतः - "जं अन्नाणी कम्मं, खवेइ बहुआहि वासकोडीहिं। तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं" ॥१॥ [ प.व./५६४] इति ।
तथा परदेशकत्वं च आत्मपरसमुत्तारस्तदपि स्वाध्यायाद् भवति, तथा चाज्ञाया वात्सल्यं दीपना भक्तिस्तीर्थाऽविच्छित्तिश्च परदेशकत्वे सति भवतीति विधिना स्वाध्यायो विधेयः, अकरणे चोन्मादादयो दोषाः स्युः । यतः -
"उम्मायं व लभेज्जा रोगायंकं च पाउणे दीहं।
केवलिपण्णत्ताओ धम्माओ वावि भंसेज्जा" ॥१॥ [ प.व./५६८] इति ।
ये च सूत्रार्थग्रहणे निर्माताः शिष्येभ्यो दत्तसूत्रार्थाश्च अथवा मन्दबुद्धयस्ते आतापनादि विदधति । यतो दिनचर्यायाम् - "जे समयसारगहणे, निम्माया सीसदिन्नसुत्तत्था । अहवा वि मंदमइणो, तेसिं इमो उज्जमो भणिओ" ॥१॥[ य.दि./१०५ ] आयावयंति गिम्हेसु , हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिआ" ॥१॥ [ द.वै./३।१२] तथा वाचनाकाले व्याख्यानकाले च धीराः कायोत्सर्गमपि कुर्वते । यदुक्तं तत्रैव - १. प्रसरस मु० नास्ति । २. होईहिं-C. । होही-पञ्चवस्तुकः ॥ ३. P.C. । निर्मिता-मु० ॥
D:\new/d-3.pm53rd proof