________________
स्वाध्यायविधिः- श्लो० ९१॥]
[५०९ "उस्सग्गेण पढमा, छग्घडिआ सुत्तपोरिसी भणिआ । बिइआ य अत्थविसया, निद्दिट्ठा दिट्ठसमएहि ॥१॥ [ य.दि./९६] बिइअपयं बालाणं, अगहिअसुत्ताण दो वि सुत्तस्स ।
जे गहिअसुत्तसारा, तेसिं दो चेव अत्थस्स" ॥२॥ [ य.दि./९७] इति । स च स्वाध्यायो-वाचना-प्रच्छना-परिवर्तना-ऽनुप्रेक्षा-धर्मकथारूपः पञ्चविधः । तत्र वाचनादानग्रहणविधिरेवम् -
"उवविसइ उवज्झाओ, सीसा विअरंति वंदणं तस्स । सो तेसि सव्वसमयं, वायइ सामाइअप्पमुहं ॥१॥ [ य.दि./१००] सो गाहणाइकुसलो, विअरइ वयरु व्व वायणं तेसिं ।
सीसा वि तह सुणंति अ, जह सीसा सीहगिरिगुरुणो" ॥२॥[ य.दि./१०१] तथाऽन्यत्रापि
"पर्यास्तिकामवष्टम्भं, तथा पादप्रसारणम् ।
वर्जयेद् विकथां हास्यमधीयन् गुरुसंनिधौ" ॥१॥[ ] इति । प्रच्छनाविधिस्त्वेवम् -
"आसणगओ न पुच्छिज्जा, णेव सिज्जागओ कयाइ वि।
आगम्मुक्कुडुओ संतो, पुच्छिज्जा पंजलिउडो" ॥१॥ [उत्त. १।२२ ] परावर्तना चैवं श्राद्धानधिकृत्योक्ता साधूनामपि ज्ञेया –
"इरिअं सुपडिक्कंतो, कडसामइओ अ सुट्ट पिहिअमुहो ।
सुत्तं दोसविमुत्तं, सपयच्छेअं गुणइ सड्ढो" ॥१॥[] अनुप्रेक्षा चार्थचिन्तनम् । साऽप्येवम् – "जिणवरपवयणपायडणपउणे गुरुवयणओ सुणिअपुव्वे ।
एगग्गमणो धणिअं, चित्ते चिंतेइ सुविआरं" ॥१॥[ ] इति । धर्मकथा त्वेवं स्वरूपतः -
"सूट्ट धम्मवएसं, गुरुप्पसाएण सम्ममवबुद्धं ।
सपरोवयारजणगं, जोग्गस्स कहिज्ज धम्मत्थी" ॥१॥[ ] इति । एवं च क्रियमाणः स्वाध्यायो बहुगुणाय । यतः पञ्चवस्तुके -
"आयहिअपरिन्ना, भावसंवरो णवणवो अ संवेगो । निक्कंपया तवो णिज्जराय परदेसिअत्तं च" ॥१॥ [प.व./५५५ ]
१. C.P. | णेव-मु० नास्ति ।। २. ण-C.P. ||
D:\new/d-3.pm5\3rd proof