________________
५०८]
[धर्मसंग्रहः-तृतीयोऽधिकारः "अभिग्गहिओ अणभिगहिओ व दंडे पमज्जए साहू।
पाडलेहिज्जइ कमसो, दंडो कुड्डोवरिं भूमि" ॥१॥ [ य.दि./८९] प्रतिलेखनं चक्षुषा निरीक्षणम् , प्रमार्जनं च रजोहरणादिभिरिति विवेकः । यतस्तत्रैव -
"चक्खूहि णिरिक्खिज्जइ, जं किर पडिलेहणा भवे एसा ।
रयहरणमाइएहिं, पमज्जणं बिंति गीअत्था" ॥१॥ [ य.दि./९० ] इति प्रातः प्रतिलेखनाविधिः ।
अथ तदनन्तरकर्त्तव्यमाह-'स्वाध्यायः' इति, अन्वयस्तक्त एव, स्वाध्यायश्च कियत्कालं कार्य इत्याह-'आद्यपौरुषीम्' इति प्रथमपौरुषीं पादोनप्रहरं यावदित्यर्थः । अत्र विधिश्चैवं-वसतेर्हस्तशतावधि क्षेत्रं शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य वसतिं प्रवेदयन्ति गुरवे साधवः । यः पुनः कालग्राही स मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनके दत्त्वा वसतिं शुद्धं च कालं प्रवेदयति । ततश्चोपयुक्तः पूर्वं वाचनाचार्यस्तदनु तदनुज्ञाताश्चेतरेऽपि सूत्रोक्तविधिना स्वाध्यायं प्रस्थापयन्ति । यदुक्तं सर्वमेद् यतिदिनचर्यायाम् -
"हत्थसयं सोहित्ता, जाणित्ता पसवमित्थिआईणं । परिठविअ अट्ठिपमुहं, विहिणा वसहिं पवेइंति ॥१॥[य.दि./९१] जे उण कालग्गाही, ते पुत्तिं पेहिऊण किइकम्मं । काउं वसहिं तत्तो, कालं सुद्धं पवेअंति ॥२॥ [ य.दि./९२ ] सिद्धंतसिट्टविहिणा, उवउत्तो पट्टवेइ सज्झायं ।।
पढमं वाणायरिओ, तयणुण्णाया तहा इअरे" ॥३॥[ य.दि./९३] इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते । सा चाद्यपौरुषीप्रमाणेति आद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते । इदानी तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां सत्यापयन्ति । यतस्तत्रैव -
"उवओगकरणकाले, गीअत्था जं करेंति सज्झायं।
सो सुत्तपोरसीए, आयारो दंसिओ तेहिं" ॥१॥[य.दि./९५ ] इति । द्वितीया पौरुषी त्वर्थविषयेति ज्ञेयमित्युत्सर्गः । अपवादस्तु अगृहीतसूत्राणां बालानां द्वे अपि पौरुष्यौ सूत्रस्यैव, गृहीतसूत्राणां तु द्वे अप्यर्थस्येति । तदुक्तं तत्रैव -
१. दंडो(डे)-इति धर्मसं० भाषान्तरग्रन्थे भा० २ प० ७८ ।।
D:\new/d-3.pm53rd proof