________________
प्रतिलेखनाविधि:- श्लो० ९१॥]
[५०७ जीवसंसक्तौ च बहुशोऽपि वसतिं प्रमार्जयेदित्यवसेयम् , तथापि बहुजीवोपमर्दे त्यजेदपि । तदुक्तं दिनचर्यायाम् -
"दुन्नि पडिलेहणाओ, उउम्मि वासासु तइअ मज्झण्हे ।
वसहिं बहुसो पमज्जइ, अइसंघट्टे त( ऽन्न )हिं गच्छे'' ॥१॥[] वसतिप्रमार्जनं च यतनानिमित्तम् , सा चान्धकारे न स्यादित्युपधिप्रतिलेखनानन्तरमेव प्रातस्तच्छ्रेयः । तदुक्तं तत्रैव -
"को हेऊ ? जिणआणा, एसा जयणानिमित्तमहवा वि ।
रविकरहयंधयारे, वसहीइ पमज्जणं सेअं" ॥१॥ [ य.दि./८८ ] इति । तच्चाव्याक्षिप्तेनोपयुक्तेन च गीतार्थेन विधेयम् , न तु विपरीतेन, अविध्यादिदोषात् । यदुक्तं पञ्चवस्तुके -
"वसही पमज्जिअव्वा, विक्खेवविवज्जिएण गीएणं ।
उवउत्तेण विवक्खे, णायव्वो होइ अविही उ" ॥१॥[प.व./२६४] तेनापि सदा पक्ष्मलेन-मृदुना प्रमाणोपेतेनाविद्धदण्डकेन च दण्डकप्रमार्जनेन प्रमार्जनीया वसति, न तु कचवरशोधनादिना, यतस्तत्रैव -
"सह पम्हलेण मिउणा, चोप्पडमाइरहिएण जुत्तेणं ।
अविद्धदंडगेणं, दंडगपुच्छेण णऽण्णेणं" ॥१॥[प.व./२६५ ] इति । यतना च वसतिं प्रमाज्य पिण्डीभूतरेणुपुञ्जमुद्धरेत् । तत्र चैवं विधिर्यतिदिनचर्यायाम् -
"अह उग्गयंमि सूरे, वसहिं सुपमज्जिऊण जयणाए। ऊद्धरिअ रेणुपुंजं, छायाए विक्खिरेऊणं ॥१॥[ य.दि./८४] संगहिअ छप्पयाओ, मआण कीडाण लहइ तो संखं । पुव्वं च लेइ भूई, वोसिरिअ नवं च गिण्हंतिं ॥२॥[य.दि./८५] जो तं पुंजं छंडइ, इरिआवहिआ हवेइ निअमेणं ।
संसत्तगवसहीए, तह हवइ पमज्जमाणस्स" ॥३॥ [य.दि./८६] अत्र च आभिग्रहिकोऽनाभिग्रहिको वा साधुर्दण्डान् प्रमार्जयेत् , ततस्तदुपरितनभूमि च । यतः
१. P.C. पञ्चवस्तुकः । आ मु० ॥ २. लेइ (खेल)भूइं-इति-धर्मसंग्रहभाषान्तरग्रन्थे भा० २ प०७८ ॥
D:\new/d-3.pm5\3rd proof