SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५०६] [धर्मसंग्रह:-तृतीयोऽधिकारः "घडगाइपलोट्टणया, मट्टिअअगणी अ बीअकुंथाई। उदगगया व तसेअर, उम्मुअसंघट्टझावणया" ॥१॥[ओ.नि./२७४] स हि साधुः कुम्भकारशालादौ प्रत्युपेक्षणां कुर्वन्ननभियुक्तः संस्तोयघटादि प्रलोठयेत् , स च मृदग्निबीजकुन्थ्वादीनामुपरि प्रलुठितः, ततश्चैतान् व्यापादयेत् , यत्राग्निस्तत्र वायुरप्यवश्यम्भावी, वाऽथवा योऽसौ उदकघट: प्रलोठितस्तद्गता एव त्रसाः पूतरकादयो भवन्ति, इतरे-वनस्पत्यादयश्च । तथा वस्त्राञ्चलेन चोल्मुकं सङ्घट्टयेत्-चालयेत् , तेन चालितेन सता प्रदीपनकं सञ्जातम् , ततः संयमात्मविराधना जातेति । इदं तु सम्भवमाश्रित्योक्तम् , वस्तुतस्तु चारित्रिणः प्रमादतो यत्किचित्कायवधे षट्कायवधः सम्भवत्येव,परिणामाविशुद्धेः । “जे वि ण वावज्जंति, णिअमा तेसिं पि हिंसगो होइ"[ओघ.नि. ७५३ ] त्ति 'वावज्जति'त्ति व्यापाद्यन्ते इति । उपयुक्तश्च प्रत्युपेक्षमाणः षण्णामाराधको भवति । इत्याह - "पुढवीआउक्काए, तेउवाउवणस्सइतसाणं । पडिलेहणमाउत्तो, छण्हं आराहओ होइ" ॥१॥[ओ.नि./२७५] इति अतः प्रतिलेखना सम्यक्कार्या, अकरणे अविधिकरणे च दोषाः । यतः - "अप्पडिलेहिअदोसा, आणाई अविहिणावि ते चेव । तम्हा उ सिक्खिअव्वा, पडिलेहा सेविअव्वा य" ॥१॥[प.व./२६२] इति । एवं सूर्योदये जाते शेषमप्युपछि प्रतिलिख्य वसतिं प्रमार्जयेत् । यदुक्तं पञ्चवस्तुके - "पडिलेहिऊण वसहिं ( उवहिं), गोसंमि पमज्जणा उ वसहीए । अवरण्हे पुण पढम, पमज्जणा पच्छ पडिलेहा" ॥१॥[प.व./२६३] यतिदिनचर्यायामपि - "सिज्जा पमज्जिअव्वा, पभायसमयंमि सव्वओ पच्छा। पुत्तीतणुपडिलेहा, समणंतरमेव मज्झण्हे" ॥१॥ [ य.दि./८७ ] इत्थं च जीवसंसक्तिरहितायामपि वसतौ ऋतुबद्धे वारद्वयं वर्षासु च वारत्रयं १. कुर्वन्ननुपयुक्तः-इति ओघनियुक्तिवृत्तौ ॥ २. तेसिं पहिंसओ सोउ-इति ओघनिर्युक्तौ । 'तेषामप्यसो नियमाद्धिंसकः' इति तत्र वृत्तौ प० ११२ A || ३. अविधिकरणे-मु० नास्ति । ४. उवहि-इति पञ्चवस्तुके ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy