________________
प्रतिलेखनाविधि:- श्लो० ९१॥]
[५०५ अयं किल पुरुषाविपर्यासः, प्रथमं गुरोः सम्बन्ध्युपधिः तदनु प्रत्याख्यानिनःक्षपकस्य, तदनु ग्लानस्य तदनु नवप्रव्रजितस्य, आदिशब्दाद् व्यापृतवैयावृत्य(कर)परिग्रहः, तत आत्मनः, पूर्वं यथाकृतानि वस्त्रादीनि, तत्र बहुमानत्वात् , इतरे द्वे उपकरणेअल्पपरिकर्मबहुपरिकर्मरूपे पश्चात्प्रत्युपेक्षेतेति उत्सर्गतोऽभिहितम् । निशीथचूर्णावप्युक्तम् - ___ "उवहिमि पच्चूसे पुटिव मुहपोत्ती, तओ रयहरणं, तओ अंतोनिसिज्जा, तओ बाहिरी निसिज्जा, चोलपट्टो, कप्पो, उत्तरपट्ट, संथारपट्ट, दंडगो य, एस कमो, अण्णहा उक्कमो, पुरिसेसु पुट्विं आयरिअस्स, पच्छा परित्ती(ण), तओ गिलाणसेहाइआण, अण्णहा उक्कमो' [ ] त्ति । 'परित्ति'त्ति अनशनिन इति । अत्रापवादमाह - "पुरिसुवहिविवज्जासे, सागारिए करेज्ज उवहिवच्चासं ।
आपुच्छित्ताणगुरुं, पहुव्वमाणेअरेवितह"॥२३॥[ ओ.नि./२७१, प.व./२६१] विपर्यासः पुरुषोपधिविषयो द्विविधः, तत्रोपधिविपर्यास इत्थं सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः । प्रथमं पात्रकाणि प्रत्युपेक्षते पश्चाद् वस्त्राणि, एवमयं प्रत्युषसि विपर्यासः । एवं विकालेऽपि, सागारिकानागन्तुकान् ज्ञात्वा, पुरुषविपर्यासश्चेत्थम् -आपृच्छ्य गुरुमात्मीयोपधि ग्लानसत्कं वा प्रत्युपेक्षते, कदा? अत आह–'पहुव्वमाणे' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः पहुव्वंति–पर्याप्यन्ते तदैवं करोति, 'इतरे वितहं'ति इतरे आभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयमुपछि प्रत्युपेक्षमाणस्य वितथम् -अनाचारो भवतीत्यर्थः । तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविषयं कुर्वतो वितथम् -अनाचारो भवत्येवं च वितथं भवति -
"पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥१॥[ओ.नि./२७२ ] पुढवीआउक्काए, तेउवाउवणस्सइतसाणं ।
पडिलेहणापमत्तो, छण्हं पि विराहओ होइ" ॥२॥ [ओ.नि./२७३ ] सुगमे । कथं षट्कायविराधना ? अत आह -
१. वृत्यकरपरि इति पञ्चवस्तुकवृत्तौ ॥ २. "त्कां-ओघनियुक्तिवृत्तौ पः ११२ A ।। ३. उपधिविपर्यासं कुर्वतो-इति ओघनियुक्तिवृत्तौ प० ११२ A ।। ४. अ-P.C. ||
D:\new/d-3.pm5\3rd proof