SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रतिलेखनाविधिः- श्लो० ९१ ॥ ] [५०३ प्रशिथिलं वस्त्रं दृढं न गृहीतम् अतडितं वा १, प्रलम्बं विषमग्रहणे सति लम्बकोणम् एकान्तग्रहणेन प्रलम्बन इत्यर्थः २, लोलनं भूमौ हस्ते वाऽवज्ञया लोलयति ३, एकामर्षो वस्त्रं मध्ये गृहीत्वा तावदाकर्षणं करोति यावत् त्रिभागावशेषेशे ग्रहणं जातम् । एका(क)र्षणमित्यर्थः, अथवा त्रिभिरङ्गुलीभिर्ग्राह्यमेकया गृह्णतः । अथवाऽनेकामर्शा आकर्षणे ग्रहणे चानेके आमर्शा:- स्पर्शा भवन्ति तद्वस्त्रमनेकधा स्पृशतीत्यर्थः । अनेकरूपधूनानमितिअनेकप्रकारे त्रयाणां पुरिमाणामुपरिष्टात् धूननं - कम्पनम्, अथवाऽनेकवस्त्राण्येकत्र गृहीत्वा युगपद् धूनाति । तथा पमाणिपमादं- अखोटकेषु नवसु वस्त्रप्रमार्जनासु च नवसु प्रमादं करोति, तान् न्यूनाधिकान् करोतीत्यर्थः । तथा शङ्किता चासौ गणना च शङ्कितगणना तामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तां न कुर्यात् । अयं भावः - पुरिमादयः कियन्तो जाता इति शङ्कायां तद्गणनां करोति यः प्रमादी भवति पूर्वम्, इत्थम्भूता प्रत्युपेक्षणा न कर्त्तव्येति स्थितम् । किंविशिष्टा पुनः कर्त्तव्येत्यत आह – "अणुणाइरित्तपडिलेहा, अविवच्चासा तेहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥१७॥ [ ओघ. नि.गा. / २६८ ] अन्यूना प्रस्फोटनादिभिः, अनतिरिक्ता एभिरेव, प्रत्युपेक्षणा निरीक्षादिक्रिया, बिण्टिकाबन्धावसाना अविद्यमानपुरुषादिविपर्यासा वेति । त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति । तेषां स्थापना चेयम् - SSS SSI ISS ISI SIS SII IIS III तत्र प्रथमं न न्यूना नातिरिक्ता नाप्यविपर्यासेतिरूपं प्रशस्तम्, मुक्त्यविरोधि । शेषाणि तु सप्त पदानि विपर्यासादिदोषवन्ति अप्रशस्तानि यैर्न्यूनत्वमधिकत्वं वा तानाह – "खोडणपमज्जवेलासु, चेव ऊणाहिआ मुणेअव्वा । कुक्कुडअरुणपगासं, परोप्परं पाणिपडिलेहा" ॥१८॥ [ प.व./२५५ ] प्रस्फोटनप्रामर्जनवेलास्वेव न्यूनाधिका मन्तव्या, नवभ्यो न्यूना अधिका वा प्रस्फोटाः १. पमाण° इति ओघनि० वृत्तौ ॥ २. उ अट्ठभंगाओ - इति पंचवस्तुके ॥ ३. तुला - पञ्चवस्तुकवृत्तिः प० ४२ A ॥ ४. अरुणावासगपुव्वं - इति ओघनिर्युक्तौ गा० २६९ ॥ D:\new/d-3.pm5\ 3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy