SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५०२] [ धर्मसंग्रहः - तृतीयोऽधिकारः " वज्जेअव्वा अ ठाणठावणया" [ प.व./ २४५ ] इति पाठस्तस्याऽस्थानस्थापनेत्यर्थः । द्वारगाथेयं प्रतिपदं भाष्यकृद्व्याख्यानयति "वितहकरणे च तुरिअं, अण्णं अण्णं च गिण्ह आरभडा १ । अंतो तु हुज्ज कोणो, निसिअण तत्थेव सम्मद्दा" ॥१३॥[ ओ.नि.भा./१६२ ] वितथं –विपरीतं यत्करणं तदारभयृशब्देनोच्यते । सा चारभटयप्रत्युपेक्षणा न कार्या, विपरीतप्रत्युपेक्षणा न कार्येत्यर्थः, वा विकल्पेनेयं चारभटोच्यते, यदुत त्वरितमाकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यते । तथाऽन्तर्मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा सम्मर्दोच्यते, सा च न कार्या, अथवा तत्रैवोपधिकायां उपविश्य यत् प्रत्युपेक्षणाकरणं सा संमर्दोच्यते । "मोसलि पुव्वणिदिट्ठा, पप्फोडण रेणुगुंडिए चेव । — विक्खेवं तुक्खेवो, वेइअपणगं च छद्दोसा" ॥१४॥ [ ओ.नि.भा./१६३ ] मुशली पूर्वमेवोद्दिष्टा, पञ्चवस्तुके तु“गुरुवग्गहायठाणं'' [ प.व./२४७ ] ति पाठः । गुर्ववग्रहाद्यस्थानम्, प्रत्युपेक्षितोपधेर्निक्षेप इति च तस्यार्थः ३ तथा प्रकर्षेण स्फोटनं - प्रस्फोटनं तद्रेणुगुण्डितवस्त्रस्यैवायतनया करोति, ईदृशी क्रिया न कर्त्तव्येत्यर्थः ४। तथा विक्षेपणं वस्त्रस्यान्यत्र क्षेपणम् । इदमुक्तं भवति - प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा विक्षेपो वस्त्राञ्चलानामूर्ध्वंक्षेपणम्, स च न कार्य इत्यर्थ: ५। तथा वेदिकापञ्चकं –ऊर्ध्वंवेदिकादि ६ । एते षट् दोषाः प्रत्युपेक्षणे । वेदिकापञ्चकं यथा - "उड्डमहो एगत्तो, दुहओ अंतो अ वेइआपणगं । जाणूणमुवरि हेट्ठा, एगयरे दुण्ह बीअं तु" ॥१५॥ [ प.व./२४८ ] 'उड्डवेइआ – उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १, अहोवेइआ - अहो जाणुआणं हत्थे काऊण पडिलेइ २, एगतोवेइआ - एगजाणुगं बाहाणं अंतरं काऊण पडिले ३, दुहओवेइआ बाहाणं अंतरा दोवि जाणुआ काऊण पडिलेहेइ, ४ अंतोवेइआ - अंतोजाणुआणं हत्थे काऊण पडिलेहेइ ५' । इदं वेदिकापञ्चकं प्रत्युपेक्षणां कुर्वता न कार्यम् । प्रत्युपेक्षणादोषानेवाह – "पसिढिलपलंबलोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणिपमायं, संकिअगणणोवगं कुज्जा" ॥१६॥[ ओ.नि.गा./२६७ ] १. विकल्पे, इयं आरभटो० इति ओघनियुक्तिवृत्तौ प० १०९ B ॥ २. एगंतर - पञ्चवस्तुके ॥ ३. पमाण' इति ओघनिर्युक्तौ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy