________________
प्रतिलेखनाविधिः- श्लो० ९१॥]
[५०१ इति द्वितीयः वस्त्रं नर्त्तापितमात्मा चानर्त्तापित इति तृतीयः, उभयं न पितमिति तुर्यः । अत्राद्यः शुद्धः, एवमचलितेऽपि चत्वारो भङ्गाः । अनुबन्धश्च निरन्तरतोच्यते, ततश्चानुबन्धेन - नैरन्तर्येण प्रत्युपेक्षणा न कर्त्तव्या, तथा त्रिविधा मुशली -तिर्यग्घट्टना उर्ध्वंघट्टना अधोघट्टना चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यग् कुड्यादि घट्टयति -स्पृशति, ऊर्ध्वं, कुट्टिकादिपटलानि घट्टयति, अधो भुवं घट्टयति, एवं न मुशली किं त्वमुशली, न किंचित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति । 'छप्पुरिमं'ति व्याख्यानयति -
"छप्पुरिमा तिरिअकए, नव अक्खोडा तिन्नि तिण्णि अंतरिआ ।
ते उण विआणिअव्वा, हत्थंमि पमज्जणतिएणं" ॥९॥[प.व./२४२] षट् पूर्वा इति प्रथमाः । तिर्यक्कृते वस्त्रे उभयतो निरीक्षते, नव अस्फोटाः त्रयस्त्रयोऽन्तरिता: व्यवहिताः क्व पुनस्ते विभावितव्याः ?-हस्ते, केनान्तरिता: ?प्रमार्जनत्रिकेणेति । प्रमार्जनं व्याख्यानयति -
"तइ पमज्जणमिणं, तव्वण्णऽहिस्ससत्तरक्खट्ठा ।
तक्खणपमज्जिआए, तब्भूमीए अभोगाओ" ॥१०॥[प.व./२४३] तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्णहस्तवर्णादृश्यसत्त्वरक्षार्थम् इति फलसम्भवमाश्रित्य, अत्र समययुक्तिः, तत्क्षणप्रमार्जिताया एव पूर्वभूमेः-प्रत्युपेक्षणपृथिव्या अभोगाद् भूयः प्रत्युपेक्षणादिविरहेणेति ।
"विहिपाहण्णेणेवं, भणि पडिलेहणं अओ उडूं।
एअंचेवाह गुरू, पडिसेहपहाणओ णवरं" ॥११॥ [ प.व./२४४] विधिप्राधान्येन प्रतिलेखना भणिता, एतां चैव प्रत्युपेक्षणां प्रक्रान्ताम् , अत ऊर्ध्वम् आह गुरु:-प्रतिषेधप्राधान्येन प्रकारान्तरेण, नवरं विधिनिषेधविषयत्वाद् धर्मस्येति । किं तदित्याह -
"आरभडा संमद्दा, वज्जेअव्वा य मोसली तइआ।
पप्फोडणा चउत्थी, विक्खित्ता वेइआबद्धा" ॥१२॥ [ओघ.नि./२६६] आरभटा प्रत्युपेक्षणा न कार्या, संमर्दा न कार्या तृतीया मुशली, चतुर्थी प्रस्फोटना, पञ्चमी विक्षिप्ता, षष्ठी वेदिकाबद्धा चेति वर्जनीया । पञ्चवस्तुके तु मुसलीस्थाने
१. तद्वर्ण० हस्त° मु० ॥ २. पूर्व(तद्) भूमेः-मु० । पूर्वं भूमेः P.C. पञ्चवस्तुकवृत्तौ च ॥ ३. वेइआ छट्ठा-इति उत्तराध्ययने [२६-२६] ओघनिर्युक्तौ च । वेइआ छट्ठी-इति पञ्चवस्तुके [२४५] ॥
D:\new/d-3.pm5\3rd proof