SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५०० ] "इय दोसु वि पासेसु, दंसणओ सव्वगहणभावेणं । सव्वं ति निरवसेसं, ता पढमं चक्खुणा पेहे ॥१॥ [प.व./२३७] [ धर्मसंग्रहः - तृतीयोऽधिकारः एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात्, सर्वग्रहणभावेन सर्वमिति - निरवशेषं तावत् प्रथमं चक्षुषा प्रत्युपेक्षेत । अप्रत्युपेक्षणे दोषमाह - "अहंसणंमि अ तहा, ' मुइंगईआइआण जीवाणं । तो बीअं पप्फोडे, इहरा संकामणे विहिणा" ॥६॥ [ प.व./ २३८ ] अदर्शने सति मुइंग० पिपीलिकादीनां जीवानाम्, ततो द्वितीयं प्रस्फोटयेत्, दर्शने सति तेषां विधिना सङ्क्रामणं कुर्यात् । अथ कथं प्रस्फोटयेदित्याह – 44 'अणच्चाविअं अचलिअं, अणाणुबंधि अमोसलिं चेव । छप्पुरिमं नवखोडं, पाणिपाण( पाणि) पमज्जणं" ॥७॥ [ ओ.नि./२६५ ] तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्त्तयितव्यः, तथा अचलितं च वस्त्रं शरीरं च कर्त्तव्यम्, ‘अणाणुबंधि’त्ति न अनुबन्धः सोऽस्मिन्नस्तीति अननुबन्धि प्रत्युपेक्षणम्, न निरन्तरमाखोटकादि कर्त्तव्यम्, किं तर्हि ? - सान्तरं सविच्छेदमित्यर्थः । ‘अमोसलि'त्ति न मौशली क्रिया यस्मिन् प्रत्युपेक्षणे तदमौलि प्रत्युपेक्षणम्, यथा मुशलं झटिति ऊर्ध्वं लगति, अधस्तर्यक् च, न एवं प्रत्युपेक्षणा कर्त्तव्या, किन्तु यथा प्रत्युपेक्षमाणस्य ऊर्ध्वं पीठेषु न लगति न च तिर्यग् कुड्ये न भूमौ तथा कर्त्तव्यम् । 'छप्पुरिमं' तत्र वस्त्रं चक्षुषा निरूप्यार्वाग्भागं त्रयः पुरिमाः कर्त्तव्याः, तया परावर्त्त्याऽपरभागं निरूप्य पुनरपरे त्रयः पुरिमाः कर्त्तव्याः, एवमेते षट् पुरिमाः षट् वाराः प्रस्फोटनमित्यर्थः । 'नवखोडं'ति नव चाखोटकाः कर्त्तव्याः, पाणेरुपरि 'पाणीपाणिपमज्जणं' ति प्राणिनां कुन्थ्वादीनां पाणौ हस्ते प्रमार्जनं नवैव वाराः कर्त्तव्यम् । इयं द्वारगाथा । इदानीं भाष्यकृद्वयाख्यानयन्नाह - "वत्थे अप्पाणमि अ, चउह अणच्चाविअं अचलिअं च । बंध निरंतर तिरिउड्ढहघट्टया मुसली" ॥८॥ [ ओघ.नि.भा./ १६१] वस्त्रे आत्मनि चेति पदद्वयेन भङ्गकचतुष्टयं सूचितं भवति, ततश्चानेन प्रकारेणानर्त्तापितं चतुर्द्धा भवति, इत्थं वस्त्रमनर्त्तापितं आत्मापि चेत्याद्यः, वस्त्रमनर्त्तापितमात्मा च नर्त्तापित १. अवलिअं-उत्तराध्ययने ओघनिर्युक्तौ च ॥ २. पाणीपाणिविसोहणं - उत्तराध्ययने [२६।२५] “पाणौ प्राणिनां कुन्थ्वादीनां विशोधनं... पाणिप्राणिविशोधनम्" इति नेमिचन्द्रीयायां वृत्तौ ।। ३. अवलितम्–ओघनि० वृत्तौ । “अवलितम् यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न भवति' इति उत्तराध्ययनसूत्रस्य नेमिचन्द्रीयायां वृत्तौ प० ३१२ ॥ ४. नर्त्तायितं - ओघनियुक्तिवृत्तौ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy