________________
प्रतिलेखनाविधि:- श्लो० ९१॥]
[४९९ प्रत्युपेक्षेत, 'अतुरिति अत्वरितं स्तिमितं प्रत्युपेक्षेत, 'सव्वं'ति सर्वं कृत्स्नं वस्त्रं तावत्पूर्वं - प्रथमं प्रत्युपेक्षेत -चक्षुषा निरीक्षेत, एवं तावदर्वाग्भागः, परभागोऽपि परावृत्य एवमेव चक्षुषा निरीक्षेत, 'तो बीअं पप्फोडे'त्ति ततो द्वितीयायां वारायां प्रस्फोटयेद्वस्त्रम् , षट् पुरिमाः कर्त्तव्याः इत्यर्थः । 'तइअंच पुणो पमज्जिज्ज'त्ति तृतीयायां वारायां हस्तगतान् प्राणिनः प्रमार्जयेदिति । इदानीमेनां गाथां भाष्यकृव्याख्यानयन्नाह -
"वत्थे काउलुमि अ, परवयणठिओ गहाय दसिअंते ।।
तं न भवइ उक्कुडुओ तिरिअंपेहे जह विलित्तो" ॥२॥[ओ.नि.भा.१५९, प.व.२३४] ऊर्ध्वं द्विधा-वस्त्रोचं कायोर्ध्वं चेति, इत्येतस्मिन्नुक्ते 'परवयणं'ति पर:चोदकस्तस्य वचनम् तत्किम् ? इत्याह –'ठिओ गहाय दसिअंते'त्ति स्थितस्य ऊर्ध्वस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्ध्वं वस्त्रोद्धं च भवति । एवमुक्ते सत्याचार्य आह -तन्न भवति यन्नोदकेनाभिहितम् , कुतो ? यस्मात् 'उक्कुडुओ तिरिअं पेहे' उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षेत, एतदेव च नः कायोर्ध्वं वस्त्रोचं च, नान्यत् , यथा चन्दनादिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षेत, ततश्चैवमुत्कुटुकस्य कायोर्ध्वं भवति, तिर्यक्प्रसारितवस्त्रस्य च वस्त्रोचं भवति, उ8 ति भणिअं । इदानीं स्थिरादीनि पदानि भाष्यकृदाह - "घित्तुं थिरं अतुरिअं, तिभागबुद्धीई चक्खुणा पेहे।
तो बिइअं पप्फोडे, तइअं च पुणो पमज्जेज्जा" ॥२॥[ओ.नि.भा./१६०]
गृहीत्वा स्थिरं-निबिडं दृढं वस्त्रं ततः प्रत्युपेक्षेत, अत्वरितं-स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धीए' भागत्रयबुद्धयेत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारां प्रस्फोटयेत् , तृतीयवारां प्रमार्जयेदिति पूर्ववत् । अन्यत्र त्वेवं पाठः –
"अंगुट्ठअंगुलीहिं, घेत्तुं वत्थं तिभागबुद्धीए।
तत्तो अ असंभंतो, थिरं ति थिरचक्खुणा पेहे ॥१॥[ प.व./२३५] इति । सुगमा । तथा-"परिवत्तिअउं सम्मं, अतुरिअमिति अहुअं पयत्तेणं ।
वाउजयणानिमित्तं, इहरा तक्खोभमाईआ" ॥४॥[ प.व./२३६ ]
परावर्त्तयितुं सम्यग् द्वितीयपाइँन, अत्वरितम् –अद्रुतम् , प्रयत्नेन वायुसंरक्षणार्थम् , इतरथा वायुक्षोभादयो दोषाः । तथा –
१. थिरचक्खुवावारं पंचवस्तुके । स्थिरचक्षुव्यापार-तत्र टीका ॥ २. परिवत्तइउं-मु० । परिवत्तिअं च सम्म-इति पञ्चवस्तुके । परिवर्तितं च सम्यक् इति तत्रैव वृत्तौ ।।
D:\new/d-3.pm5\3rd proof